SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ५ ५८६ तत्त्वार्थवार्तिके [ ८२५-२६ आह-बन्धपदार्थान्तरं पुण्यपापोपसंख्यानं चोदितम्, तद्बन्धेऽन्तभूर्तमिति प्रत्याख्या तम् । तत्रेदं वक्तव्यं कोऽत्र पुण्यबन्धः कः पापबन्ध इति ? तत्र पुण्य प्रकृति परिगणनार्थमिदमुच्यते सवेद्य शुभायुर्नामगोत्राणि पुण्यम् ॥ २५ ॥ शुभग्रहणमायुरादीनां विशेषणम् | १| शुभं प्रशस्तमित्यर्थः, तद्ग्रहणमायुरा दीनां विशेषणं द्रष्टव्यम् - शुभायुः, शुभनाम शुभगोत्रमिति । शुभात्रिविधम् ॥२॥ तिर्यगायुर्मनुष्यायुर्देवायुरिति एतत्त्रितयं शुभायुरित्युच्यते । शुभनाम सप्तत्रिंशद्विकल्पम् |३| शुभनाम सप्तत्रिंशद्विकल्पमवगन्तव्यम् । तद्यथामनुष्यगतिः, देवगतिः, पञ्चेन्द्रियजातिः, पञ्च शरीराणि, त्रीण्यङ्गोपाङ्गानि, समचतुरस्रसंस्थानम्, वज्रर्षभनाराचसंहननम्, प्रशस्तवर्ण- गन्ध-रस- स्पर्शाः, मनुष्यगति-देवगत्यानुपूर्व्यद्वयम्, अगुरु१० लघु-परघातोच्छ्रासाऽतपोद्योतप्रशस्तविहायोगतयः, त्रस बादर-पर्याप्ति-प्रत्येकशरीर- स्थिर- शुभ-सुभगसुस्वर-आदेय-यशस्कीर्तयः निर्माणं तीर्थकरनाम चेति । शुभमेकमुच्चैर्गोत्रम् सद्वेद्यमित्येता द्वाचत्वारिंशत्प्रकृतर पुण्यसंज्ञा इति । २० अतोऽन्यत् पापम् ॥ २६ ॥ अस्मात् पुण्यसंज्ञककर्मप्रकृतिसमूहादन्यत् कर्म पापमित्युच्यते । तद् द्वयशीतिविधम् । १५ तद्यथा - ज्ञानावरणप्रकृतयः पश्च, दर्शनावरणस्य नव, मोहनीयस्य पविंशतिः, पचान्तरायस्य, नरकगतिः, तिर्यग्गतिः, चतस्रो जातयः, पन संस्थानानि पञ्च संहननानि, अप्रशस्तवर्ण- गन्ध-रसस्पर्शाः, नरकगतितिर्यग्गत्यानुपूर्व्यद्वयम्, उपघाता-ऽप्रशस्तविहायोगति स्थावर सूक्ष्माऽपर्याप्त-साधारणशरीराऽस्थिरा ऽशुभ- दुर्भग-दुःखरा ऽनोदया यशस्कीर्तयश्चेति नामप्रकृतयः चतुस्त्रिंशत्, असद्वेद्यम्, नरकायुः, नीचैर्गोत्रमिति । एवं व्याख्यातः सप्रपञ्चो बन्धपदार्थः अवधिमनः पर्यय केवलज्ञानप्रत्यक्षप्रमाणगम्यः तदुपदिष्टागमानुमेयः । इति तत्त्वार्थवार्तिके व्याख्यानालङ्कारेऽटमोऽध्यायः समाप्तः ॥ ८ ॥ १ - ज्ञाः ता०, ५०, ब०, मु० २ - सिसा - मु०, ६०, ब० ।
SR No.022021
Book TitleTattvarth Varttikam Part 02
Original Sutra AuthorN/A
AuthorAkalankadev, Mahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2009
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Tattvartha Sutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy