________________
८।११ ] अष्टमोऽध्यायः
५७६ यनिमित्तं मनोज्ञस्वरनिर्वर्तनं तत्सुस्वरनाम ॥२५॥ मनोज्ञस्वरनिर्वर्तनं यन्निमित्तमुपजायते प्राणिनस्तत् सुस्वरनाम ।
__ तद्विपरीतं दुःस्वरनाम ॥२६॥ तद्विपरीतफलत्वात् तद्विपरीतम् अमनोज्ञस्वरनिर्वर्तनकरं दुःस्वरनाम ।
यदुदयाद्रमणीयत्वं तच्छुभनाम ।२७। यदुदयाद् दृष्टः श्रुतो वा रमणीयो भवत्यात्मा ५ तच्छुभनाम ।
तद्विपरीतमशुभनाम ।२८। तद्विपरीतफलं द्रष्टुः श्रोतुश्चारमणीयकरम् अशुभनाम ।
सूक्ष्मशरीरनिर्वर्तकं सूक्ष्मनाम ॥२६॥ यदुदयादन्यजीवानुपग्रहोपघाताऽयोग्यसूक्ष्मशरीरनिर्वृत्तिर्भवति तत्सूक्ष्मनाम ।
अभ्यबाधाकरशरीरकारणं बादरनाम ।३०। अन्यबाधानिमित्तं स्थूलं शरीरं यतो भवति १० तद् बादरनाम।
यदुदयादाहारादिपर्याप्तिनिर्वृत्तिस्तत्पर्याप्तिनाम ॥३१॥ यस्योदयात् आहारादिपर्याप्तिभिरात्माऽन्तर्मुहूर्त पर्याप्तिं प्राप्नोति तत्पर्याप्तिनाम । तत्षड्विधम्-आहारपर्याप्तिनाम, शरीरपर्याप्तिनाम, इन्द्रियपर्याप्तिनाम, प्राणापानपर्याप्तिनाम, भाषापर्याप्तिनाम, मनःपर्याप्तिनाम चेति ।
अत्राह-प्राणापानकर्मोदये वायोर्निष्क्रमणप्रवेशनात्मकं फलम् , उच्छासकर्मोदयेऽपि तदेवेति १५ नास्त्यनयोर्विशेष इति ? उच्यते
ऐन्द्रियिकानिन्द्रियभेदात्तविशेषः ।३। शीतोष्णसंबन्धजनितदुःखस्य पञ्चेन्द्रियस्य यावुच्छासनिःश्वासौ दीर्घनादौ श्रोत्रस्पर्शनेन्द्रियप्रत्यक्षौ तावुन्छासनामोदयजौ, यौ तु प्राणापानपर्याप्तिनामोदयकृतौ तौ]सर्वसंसारिणां श्रोत्रस्पर्शानुपलभ्यत्वादतीन्द्रियौ ।
षड्विधपर्याप्त्यभावहेतुरपर्याप्तिनाम ।३३। यस्योदयात् पडपि पर्याप्तीः पर्यापयितुम् २० । आत्मा असमर्थो भवति तदपर्याप्तिनाम ।।
स्थिरधावस्य निर्वर्तकं स्थिरनाम ।३४॥ यदुदयात् दुष्करोपवासादितपस्करणेऽपि अङ्गोपाङ्गानां स्थिरत्वं जायते तत् स्थिरनाम ।
तद्विपरीतमस्थिरनाम ॥३५॥ यदुदयादीषदुपवासादिकरणात् स्वल्पशीतोष्णादिसंबन्धाच्च । अङ्गोपाङ्गानि कृशीभवन्ति तदस्थिरनाम ।
प्रभोपेतशरीरताकरणम् आदेयनाम ।३६। यस्योदयात् प्रभोपेतशरीरं दृष्टेष्टमुपजायते तदादेय नाम ।
निष्प्रभशरीरकरणमनादेयनाम ।३७। निष्प्रभं शरीरं यस्योदयादापद्यते तदनादेयनाम ।
अत्राह-तैजसं नाम सूक्ष्मशरीरमस्ति तन्निमित्ता शरीरप्रभा नादेयकर्मनिमित्तेति ? उच्यतेसर्वसंसारिजीवशरीरप्रभाऽविशेषप्रसङ्गः स्यात् तैजसस्य सर्वेषां साधारणत्वात् , तत आदेयकर्मो- ३० दयनिमित्ता प्रभेति युक्तम् ।
पुण्यगुणख्यापनकारणं यशस्कीर्त्तिनाम ।३८। पुण्यगुणानां ख्यापनं यदुदयाद्भवति तद्यशस्कीर्तिनाम प्रत्येतव्यम् । ननु यशःकीर्तिरित्यनयो स्त्यर्थविशेष इति पुनरुक्तत्वसङ्गः, नैष दोषः, यशो नाम गुणः, कीर्तनं संशब्दनं कीर्तिः, यशसः कीर्तिः यशःकीर्त्तिरित्यस्त्यर्थभेदः ।
तत्प्रत्यनीकफलमयशस्कीर्तिनाम ॥३६॥ पापगुणख्यापनकारणम् अयशस्कीर्तिनाम वेदितव्यम्।
२०