SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ५७६ तत्त्वार्थवार्तिके [ ८१ गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसंघातसंस्थानसंहननस्पर्शरसगन्धवर्णानुपूर्व्यागुरुलघूपघातपरघातातपोद्योतोच्छवासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याशिस्थिरादेययश स्कीर्तिसेतराणि तीर्थकरत्वं च ॥ ११ ॥ यदुदयादात्मा भवान्तरं गच्छति सा गतिः ।। यस्य कर्मण उदयवशात् आत्मा भवान्तरं प्रत्यभिमुखो व्रज्यामास्कन्दति सा गतिः । गम्यत इति गतिरित्युच्यमानेऽपि रूढिवशात् कस्मिंश्चिद्गतिविशेषे वर्तते गोशब्दप्रवृत्तिवत् ? इतरथा हि यदा आत्मा न गच्छति न तदा गतिर्भवेत् , सत्कर्मावस्थायां च गतिव्यपदेशो न स्यात् । सा चतुर्विधा-नरकगतिस्तिर्यग्गतिर्मनुष्यगतिर्देव गतिश्चेति । यनिमित्त आत्मनो नारकभावः तन्नरकगतिनाम । एवं शेषेष्वपि योज्यम् । १० तत्राव्यभिचारिसादृश्यकीकृतोऽर्थात्मा जातिः। तासु नारकादिगतिषु अव्यभिचारिणा सादृश्येन एकीकृतोऽर्थात्मा जातिरिति व्यपदेशमर्हति । तन्निमित्तं जातिनाम । तत्पश्चविधम्एकेन्द्रियजातिनाम द्वीन्द्रियजातिनाम त्रीन्द्रियजातिनाम चतुरिन्द्रियजा तिनाम पञ्चेन्द्रियजातिनाम चेति । यदुदयादात्मा एकेन्द्रिय इति शब्द्यते तदेकेन्द्रियजातिनाम । एवं शेषेष्वपि योज्यम् । __ यदुदयादात्मनः शरीरनिर्वृत्तिस्तच्छरीरनाम ॥३॥ यस्योदयादात्मनः शरीरनिवृत्तिर्भवति १५ तच्छरीरनाम । तत्पञ्चविधम्-औदारिकशरीरनाम वैक्रियिकशरीरनाम आहारकशरीरनाम तैजसशरीरनाम कार्मणशरीरनाम चेति । तेषां विशेषो व्याख्यातः । यदुदयादङ्गोपाङ्गविवेकस्तदङ्गोपाङ्गनाम ।४यस्योदयाच्छिरःपृष्ठोसंबाहूदरनलकपाणिपादानामष्टानामङ्गानां तद्भदानां च ललाटनासिकादीनाम् उपाङ्गानां विवेको भवति तदङ्गोपाङ्ग नाम । तत्रिविधम्-औदारिकशरीराङ्गोपाङ्गनाम वैक्रियिकशरीराङ्गोपाङ्गनाम आहारकशरीराङ्गो२० पाङ्गनाम चेति । यन्निमित्ता परिनिप्पत्तिस्तन्निर्माणम् ॥५॥ अङ्गोपाङ्गानां यन्निमित्ता परिनिष्पत्तिस्तमिर्माणमिति विज्ञायते । तद्विविधम्-स्थाननिर्माणं प्रमाणनिर्माणं चेति । जातिनामकर्मोदयापेक्षं चक्षुरादीनां स्थानं प्रमाणं च निवर्तयति । निर्मीयतेऽनेन इति हि निर्माणम् । शरीरनामकर्मोदयोपात्तानां यतोऽन्योन्यसंश्लेषणं तद्बन्धनम् ।६। शरीरनामकर्मोदय२५ वशादुपात्तानां पुद्गलानामन्योन्यप्रदेशसंश्लेषणं यतो भवति तद्वन्धनमित्याख्यायते । तस्याभावे शरीरप्रदेशानां दारुनिचयवत् असंपर्कः स्यात् । अविवरभावेनैकत्वकरणं संघातनामकर्म ।। यदुदयादौदारिका दिशरीराणां विवरविरहितान्योन्यप्रदेशानुप्रवेशेनैकत्वापादनं भवति तत् संघातनाम । यद्ध तुका शरीराकृतिनिर्वृत्तिस्तत्संस्थाननाम ।८। यदुदयादौदारिकादिशरीराकृतिनिर्वृत्तिभवति तत्संस्थाननाम प्रत्येतव्यम् । तत् षोढा प्रविभज्यते-समचतुरस्रसंस्थाननाम, न्यग्रोधपरिमण्डलसंस्थाननाम, स्वातिसंस्थाननाम, कुब्जसंस्थाननाम, वामनसंस्थाननाम, 'हुण्डसंस्थाननाम चेति । तत्रोद्मधोमध्येषु समप्रविभागेन शरीरावयवसन्निवेशव्यवस्थापनं कुशलशिल्पिनिर्वतितसमस्थितिचक्रवत् अवस्थानकरं समचतुरस्रसंस्थाननाम । नाभेरुपरिष्टाद् भूयसो देहसन्निवेशस्या 1-बाहुरदनालक-मु० । २-ति ज्ञाय-मु०, द०, ब० । ३ कुब्जकसं-मु० । । हुण्डकसं-मु०, २०, २० ।
SR No.022021
Book TitleTattvarth Varttikam Part 02
Original Sutra AuthorN/A
AuthorAkalankadev, Mahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2009
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Tattvartha Sutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy