SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ७२६-३० ] सप्तमोऽध्यायः कारणम् ? कामतत्राभिनिवेशग्रहणात् सिद्धेः । दीक्षितादिषु हि परिहर्तत्र्यासु वृत्तिः कामतीत्राभिनिवेशाद्भवति । उक्तोऽत्र दोषः राजभयलोकापवादादिः । ५५.५ क्षेत्रवास्तु हिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणातिक्रमाः ॥ २९ ॥ " क्षेत्रवास्त्वादीनां द्वयोर्द्वयोर्द्वन्द्वः प्राक् कुप्यात् |१| क्षेत्रवास्त्वादीनां द्वयोर्द्वयोः द्वन्द्वो भवति । किमविशेषेण ? इत्याह- प्राक्कुप्यात् । क्षेत्रं च वास्तु च क्षेत्रवास्तु, हिरण्यं च सुवर्णं च ५ हिरण्यसुवर्णम् धनं च धान्यं च धनधान्यम्, दासी च दासश्च दासीदासम् । क्षेत्रवास्तु च हिरण्यसुवर्ण च धनधान्यं च दासीदासं च कुप्यं च क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदास - कुप्यानि । दासीदासमिति गवाश्वादिषु निपातनात् एकशेषभावः । क्षेत्रं शस्याधिकरणम् । वास्तु अगारम् । हिरण्यं रूप्यादिव्यवहारतन्त्रं सुवर्णं प्रतीतम् । धनं गवादि । धान्यं श्रीह्यादि । दासीदासं भृत्यस्त्रीपुंसवर्गः । कुप्यं क्षौमकार्पासकौशेयं चन्दनादि । १० तीव्र लोभाभिनिवेश। दतिरेकाः प्रमाणातिक्रमाः |२| एतावानेव परिग्रहो मम नातोऽन्य इति परिच्छिन्नात् क्षेत्रवास्त्वादिविषयादतिरेकाः अतिलोभवशात् प्रमाणातिक्रमा इति प्रत्याख्यायते । त एते पञ्च परिग्रहविरमणस्यातिक्रमाः । उक्ता व्रतानामतिचाराः, शीलानामतिचारा वच्यन्ते । तद्यथा ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्र वृद्धिस्मृत्यन्तराधानानि ॥ ३० ॥ परिमितदिगवधिव्यतिलङ्घनमतिक्रमः | १| परिमितस्य दिगवधेरतिलङ्घनमतिक्रम इत्युच्यते । स समासतस्त्रिविधः - ऊर्ध्वातिक्रमः अधोऽतिक्रमः तिर्यगतिक्रमश्चेति । तत्र पर्वताद्यारोहणादूर्ध्वातिक्रमः |२| पर्वतमरुभूम्यादीनामारोहणादूर्ध्वातिक्रमो भवति । कूपावतरणादेरधोऽतिवृत्तिः | ३| कूपावतरणादेः अधो दिगवधेरतिवृत्तिर्वेदितव्या । विलप्रवेशादिस्तिर्यगतीचारः |४| भूमिविलगिरिदरीप्रवेशादिस्तिर्यगतीचारो द्रष्टव्यः । २० अभिगृहीताया दिशो लोभावेशादाधिक्याभिसन्धिः क्षेत्रवृद्धिः | ५| प्राग् दिशं योजनादिभिः परिच्छिद्य पुनर्लोभवशात्ततोऽधिकाकाङ्क्षणं क्षेत्रवृद्धिरित्यध्यवसीयते । इच्छापरिमाणे ऽन्तर्भावात् पौनरुक्त्यमिति चेत्; न; तस्यान्याधिकरणत्वत् |६| स्यादेतत् - इच्छापरिमाणे पञ्चमेऽणुव्रते अस्यान्तर्भावात् पुनर्ग्रहणं पुनरुक्तमिति; तन्न; किं कारणम् ? तस्यान्याधिकरणत्वात् । इच्छापरिमाणं क्षेत्रवास्त्वादिविषयम् इदं पुनः दिग्विरमणमन्यार्थम् - २५ अस्यां दिशि लाभे जीवितमलाभे च मरणमतोऽन्यत्र लाभेऽपि न गमनमिति, न तु दिशि क्षेत्रादिष्विव परिग्रहबुद्धयात्मसात्करणात् परिमाणकरणमस्ति, ततोऽर्थविशेषोऽस्यावसेयः । " तदतिक्रमः प्रमादमोहव्यासङ्गादिभिः ॥७॥ तस्यैतस्य दिकूपरिमाणस्यातिक्रमः प्रमादात् मोहाद् व्यासङ्गाद्वा भवतीत्यवसेयः । १५ १ कृमिकोशोत्थ । २- मरुद्भूम्या - मु० । - तरुभू - मू० । सीमान्तस्थितानाम् । १७ अननुस्मरणं स्मृत्यन्तराधानम् || अनुस्मरणम् परामर्शनं प्रत्यवेक्षणमित्यनर्थान्तरम्, ३० इदमिदं मया योजनादिभिरभिज्ञानं कृतमिति, तदभावः स्मृत्यन्तराधानम् । त एते पञ्च दिग्विरणस्यातिक्रमाः ।
SR No.022021
Book TitleTattvarth Varttikam Part 02
Original Sutra AuthorN/A
AuthorAkalankadev, Mahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2009
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Tattvartha Sutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy