SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽध्यायः ५५३ ७२५-२६ ] कारणम् ? शीलविशेषद्योतनार्थत्वात् । अभिसन्धिपूर्वको नियमो व्रतमिति कृत्वा दिग्विरत्यादीन्यपि व्रतानि भवन्ति, किन्तु व्रतपरिरक्षणं शीलमित्यस्य विशेषस्य द्योतनार्थ शीलग्रहणम् । तेन दिग्विरत्यादीनि शीलग्रहणेन गृह्यन्ते । सामर्थ्याद् गृहिव्रतसंप्रत्ययः |२| यद्यपि इदं सूत्रमविशेषेणोक्तं तथापि सामर्थ्याद् गृहिव्रतग्रहणमवसेयम् । किं सामर्थ्यम् ? वक्ष्यमाणवधबन्धच्छेदादिवचनम् । ते हि बन्धवधच्छेदादयो गृहस्थस्यैव नानगारस्येति । पञ्च पञ्श्चेति वीप्सायां द्वित्वम् |३| पञ्च पञ्चेत्येतत् वीप्सायां द्वित्वमवसेयम् । ततोऽनवयवाभिधानं वीप्सार्थमिति अनवयवेन व्रतशीलानि पञ्चसंख्यया व्याप्यन्ते । ननु च लध्वर्थ पच इति शसा निर्देशः कर्तव्यः सत्यमेवमेतत् ; व्यक्तयर्थं वाक्येन निर्देशः क्रियते । यथाक्रमवचनं वक्ष्यमाणातिचारक्रमसंबन्धनार्थम् |४| वक्ष्यमाणा अतिचारा अहिंसा - १० दिभिः क्रमेणाभिसंबध्यन्तामित्येवमर्थं यथाक्रमवचनं क्रियते । यो यः क्रमो यथाक्रमं क्रमानतिवृत्त्येत्यर्थः । आह-यद्येवं तस्मादुच्यतां तावदाद्यस्य प्राणव्यपरोपणनिवृत्तलक्षणस्याणुव्रतस्य केऽतिचाराः, "येभ्योऽयं निवृत्तौ निरपवादो भवतीति ? अत्रोच्यते बन्धवधच्छेद । तिभारारोपणान्नपाननिरोधाः ॥ २५ ॥ अभिमतदेशगतिनिरोधहेतुर्बन्धः |१| अभिमतदेशगमनं प्रत्युत्सुकस्य तत्प्रतिबन्धहेतुः कीलादिषु रज्वादिभिर्व्यतिषङ्गो बन्ध इत्युच्यते । प्राणिपीडाहेतुर्वधः | २ | दण्डकशावेत्रादिभिरभिघातः प्राणिनां वध इति गृह्यते न प्राणव्यपरोपणम्, ततः प्रागेवास्य विनिवृत्तत्वात् । छेदोऽङ्गापनयनम् |३| कर्णनासिकादीनामवयवानाम् अपनयनं छेद इति कथ्यते । न्याय्यभार दतिरिक्तभार वाहनमतिभारारोपणम् |४| न्यायादनपेवाद्भारादतिरिक्तस्य भारस्य वाहनम् अतिलोभाद्गवादीनामतिभारारोपणमिति गण्यते । क्षुत्पिपासाबाधनमन्नपाननिरोधः | ५ | तेषामेव गवादीनां कुतश्चित् कारणात् चुत्पिपासाबाधोत्पादनमन्नपाननिरोध इस्याख्यायते । एते पञ्च अहिंसाणुव्रतस्यातिचाराः । मिथ्योपदेशरहोऽभ्याख्या नक्कूटलेखक्रिया न्यासापहार साकारमन्त्रभेदाः || २६ ॥ मिथ्यान्यप्रवर्तनमति मन्धापनं वा मिथ्योपदेशः | १| अभ्युदयनिःश्रेयसार्थेषु क्रियाविशेषेषु अन्यस्यान्यथा प्रवर्तनमतिसन्धापनं वा मिथ्योपदेश इत्युच्यते । संवृतस्य प्रकाशनं रहोऽभ्याख्यानम् |२| स्त्रीपुंसाभ्याम् एकान्तेऽनुष्ठितस्य क्रियाविशेषस्य प्रकाशनं यत् रहोऽभ्याख्यानं तद्वेदितव्यम् । ५ परप्रयोगादन्यानुक्तपद्धतिकर्म कूटलेखक्रिया |३| अन्येनानुक्तं किचित् परप्रयोगवशात् एवं तेनोक्तम् अनुष्ठितमिति वचनानिमित्तं लेखनं कूटलेखक्रिया । हिरण्यादिनिक्षेपेऽल्पसंख्यानुज्ञानवचनं न्यासापहारः |४| हिरण्यादेर्द्रव्यस्य निक्षेपतुर्वि - स्मृतसंख्यस्याल्पशः संख्यानमाददानस्यैवमित्यनुज्ञावचनं न्यासापहार इत्याख्यायते । १ येभ्यो निवृ-मु० । २ प्राणिव्य-मु०, मू०, ६० । १५ २० २५ ३०
SR No.022021
Book TitleTattvarth Varttikam Part 02
Original Sutra AuthorN/A
AuthorAkalankadev, Mahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2009
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Tattvartha Sutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy