SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थवार्तिके [१७ मैथुनमिति; न; मुख्यफलाभावप्रसङ्गात् । यन्मुख्ये मैथुने कर्मास्रवफलं तदत्र न प्रसज्यते मुख्यसिंहगतक्रौर्यशौर्यादेर्माणक्के प्रवृत्तिवत् । इष्यते च मुख्यमतो नोपचारः। ___न वा स्पर्शवद्रव्यसंयोगस्याविशेषाभि मानात् ।७। यथा स्त्रीपुंसयो रत्यर्थे संयोगे परस्पररतिकृतस्पर्शाभिमानात् सुखं तथैकस्यापि हस्तादिसघट्टनात् स्पर्शाभिमानस्तुल्यः। तस्मान्मुख्य ५ एब तत्रापि मैथुनशब्दलाभः रागद्वेषमोहाविष्टत्वात् । किञ्च, एकस्य द्वितीयोपपत्तौ मैथुनत्वसिद्धेः ।। यथैकस्यापि पिशाचवशीकृतत्वात् सद्वितीयत्वं तथैकस्य चारित्रमोहोदयाविष्कृतकामपिशाचवशीकृतत्वात् सद्वितीयत्वसिद्धेः मैथुनव्यकहारसिद्धिः। प्रसिद्धिवशाच्चार्थविशेषप्रतीतेः पूर्वोक्तानां चाऽनवद्यत्वम् ।।। अयं मैथुनशब्दः लोके १० शास्त्रे च स्त्रीपुरुषसंयोगजरतिविशेषे प्रसिद्धः। लोके ताक्द् गोपालादयोऽपि स्त्रीपुंसरतिकर्म मैथुनमित्याचक्षते । शास्त्रेऽपि “3अश्ववृषयोमैथुनेच्छायाम्" [पा० वा० ७१॥५१] इत्येवमादौ तदेव कर्माख्यायते । ततः प्रसिद्धिवशात् अर्थविशेषप्रतीतेः पूर्वोक्तानां च पक्षाणामनवद्यत्वमवसेयम् । तद्यथा यत्तावदुक्तम्-मिथुनस्य भाव इति चेन्न द्रव्यद्वयभवनमात्रप्रसङ्गादिति; तदसत् ; अभ्यन्तर१५ परिणामाभावे बाह्यहेतोरफलत्वात् । यथा कंकबुकचणकादीनाम् अभ्यन्तरपाककारणक्क्लेिद शक्त्यभावात् बाह्योदकाग्निसंबन्धस्याऽफलत्वं तथा अभ्यन्तरचारित्रमोहोदयापादितस्त्रैणपोस्नात्मकरतिपरिणामाभावात् बाह्यद्रव्यद्वयभबनेऽपि न मैथुनम् । यञ्चोक्तम्-मिथुनस्य कर्मेति चेन्न पुरुषद्वमनिक्रियाविशेषप्रसङ्गात् इति; तच्च 'वार्तम् । कुतः ? कदाचित् पुरुषद्वयेऽपि दर्शनात् । चरित्रमोहोदयाविष्टानां हि पुरुषाणां तादृशेष्वेव पुरुषेषु २० मैथुनं दृश्यते । उक्तं च "पुरुषाः पुरुषेष्वेव यदनिष्टप्रयोजनाः। अत्यारूतस्य तत्सर्व रागस्यैव विचेष्टिलम् ॥" [ ] इति । यदप्युक्तम्-स्त्रीपुंसयोः कर्मेति चेन्न पच्यादिक्रियाप्रसङ्गात् इति; वदसाम्प्रतम ; कुतः तद्विषयत्वैव ग्रहणात् । तयोरेव यत्कर्म तदिह गृह्यते, पच्यादिकर्म पुनः अन्येनापि क्रियते । अपि च, २५ प्रमत्तयोगादित्यनुवर्तते ततः चरित्रमोहोदयात् प्रमत्तस्य मिथुनस्य कर्म मैथुनमित्युक्तम् , नमस्कारा धुपयुक्तस्य चाऽप्रमत्तत्वात् चारित्रमोहोदयाभावाच सत्यपि बन्दनादिमिथुनकर्मणि न मैथुनम् । ____ अहिंसादिमुणईहणाद् ब्रह्म ।१०। अहिंसादयो गुणाः यस्मिन् परिपाल्यमाने हन्ति वृद्धिमुफ्यन्ति तद्ब्रह्म त्युच्यते, न ब्रह्म अब्रह्म । किं तत् ? मैथुनम् । तत्र हिंसादयो दोषाः पुष्यन्ति । यस्मात् मैथुनसेवनप्रवणः स्थाष्णुचरिष्णून प्राणिनो हिनस्ति मृषावादमाचष्टे अदत्तमादत्ते सचेतनमितरं च परिप्रहं गृहाति । अत्राह-उकं भवता हिंसादिचतुष्टयस्य विशेषलक्षणम् । इदानीमिदमुच्यतां परिप्रहस्य किं लक्षणमिति? अत्रोच्यते मूर्छा परिग्रहः ॥ १७॥ मूर्च्छत्युच्यते । का मूर्छा ? बाह्याभ्यन्तरोपधिसंरक्षणादिव्यापृतिर्मूर्छा ।। बाह्यानां गोमहिषमणिमुक्तादीनां चेतना १ तन्न मु०,०।२-भिधानात् मु०, ९०, ब० । ३ वृषाश्वयोमैथुने । ४ कंकहकच-श्र०, ता । ५ भयुक्तम् । ६ तादृशेषु पु-मु०, ब.। • स्थाणरचरिष्णून मु, ।
SR No.022021
Book TitleTattvarth Varttikam Part 02
Original Sutra AuthorN/A
AuthorAkalankadev, Mahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2009
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Tattvartha Sutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy