________________
तत्त्वार्थवार्तिके
[६।१४ एकस्याऽसङ्घत्वमिति चेत् ; नः अनेकवतगुणसंहननादेकस्यापि सङ्घत्वसिद्धेः ।।। स्यादेतत्-सङ्घो गणो वृन्दमित्यनान्तरम् तस्य कथमेकस्मिन् वृत्तिरिति ? तन्न; किं कारणम् ? अनेकवतगुणसंहननादेकस्यापि सङ्घत्वसिद्धेः । उक्तं च
“संघो गुणसंघादो कम्माण विमोयदो हवदि संघो ।
दंसणणाणचरित्ते संघादित्तो हवदि संघो ॥ 1 ॥" [ भग० आरा० गा० ७१४ ] अहिंसादिलक्षणो धर्मः । तस्मिन् जिनप्रवचने निर्दिष्टोऽहिंसादिलक्षणो धर्म इत्युच्यते ।
देवरान्दो व्याख्यातार्थः ।। "देवाश्चतुर्णिकायाः" [ त. सू० ४।१] इत्यत्र देवशब्दो व्याख्यातार्थः।
अन्तःकलुपदोषादसद्भूतमलोद्भावनमवर्णवादः ।७। गुणवत्सु महत्सु स्वमतिकलुषदोषात् १० असद्भूतमलोद्भावनमवर्णवाद इति वर्ण्यते । केवलिश्रुतसंघधर्मदेवानामवर्णवादः केवलिश्रुतसंघधर्मदेवाऽवर्णवादः ।
पिण्डाभ्यवहारजीवनादिवचनं केवलिषु ।। पिण्डाभ्यवहारजीविनः कंवलदशानिर्हरणाः अलावूपात्रपरिग्रहाः कालभेदवृत्तज्ञानदर्शनाः केवलिन इत्यादिवचनं केवलिष्ववर्णवादः ।
___ मांसभक्षणायनवद्याभिधानं श्रुते।।। मांसमस्यभक्षणं मधुसुरापानं वेदनार्दितमैथुनोपसेवा १५ रात्रिभोजनमित्येवमाद्यनवद्यमित्यनुज्ञानं श्रतेऽवर्णवादः ।।
शुद्रत्वागुचित्वाद्याविर्भावनं सङ्घ १० एते श्रमणाः शूद्राः अस्नानमलदिग्धाङ्गाः अशुचयो दिगम्बरा निरपत्रपा इहैवेति दुःखमनुभवन्ति परलोकच मुपित इत्यादिवचनं सोऽवर्णवादः।
निर्गुणत्वाधभिधानं धर्म ।११। जिनोपदिष्टो दशविकल्पो धर्मो निर्गुणः, तदुपसेविनो ये २० ते चाऽसुरा भवन्ति इत्येवमाद्यभिधानं धर्मावर्णवादः ।
सुरामांसोपसेवाद्याघोषणं देवावर्णवादः ।१२। सुरा मांसं चोपसेवन्ते देवा आह(अहि)ल्यादिषु चासक्तचेतसः इत्याद्याघोपणं देवावर्णवादः ।
दर्शनं मोहयति मोहनं वा दर्शनमोहः ।१३। दर्शनमुक्तलक्षणं "तस्वार्थश्रद्धानम्” [ त० सू० १॥२] इत्यत्र, दर्शनं मोहयतीति दर्शनमोहः, दर्शनस्य मोहनं वा दर्शनमोहः, तस्य दर्शनमोहस्यते २५ आस्रवा वेदितव्याः । ।
आह-यद्यते दर्शनमोहस्यापादकाः परिणामा निश्चीयन्ते । क इदानीमनन्तरोद्दिष्टस्य चारित्रमोहस्यास्रव इति ? अत्रोच्यते
कषायोदयात्तीव्रपरिणामश्चारित्रमोहस्य ॥ १४ ॥
द्रव्यादिनिमित्तवशात् कर्मपरिपाक उदयः ।। प्रागुपात्तस्य कर्मणः द्रव्यादिनिमित्त३० वशात् फलप्राप्तिः परिपाक उदय इति निश्चीयते । कषायो निरुक्तः । कपायस्य उदयः कषायोदयः
तस्मात् कपायोदयात् ।
१ संघावर्णवाद आस्रवो भवतु, एकस्योपर्यवर्णवादो नास्रवहेतुरित्याशङ्कमानं प्रत्याह । २ संघाताङसेरिति प्राकृतव्याकरणसूत्रात् द्विरुक्तिः । तदुक्तं प्राकृतमञ्जर्याम्-तोरित्येप द्विरुकः स्यादोकारो वा उसेः पुनरिति । ३ कंबल कुंज । ४ जीवन्मत्स्य । यो जग्धा पिशितं मत्स्यकवलमिति । ५ तीनवेदनेषु कृपाहितमनसा । तदुक्तम्-अभवत् सुगतः खरी खराणां स्वयमुत्पाद्य भगान् समन्ततः। कृपया न तु कामसेक्या न वयं तत्र विनिश्चयं गताः ॥ ६ परलोके कुतश्च सुखिनः इ-मु०, द०,व०। ७ आहव्येति तापसस्त्री काचित् ।