SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ પરસ્ત્રીત્યાગ પ્રઝમ शार्दूलविक्रीडितवृत्तम् नो हास्यं सुरतप्रपञ्चचतुरं नालिंगनं निर्भरं, नैवोरोजसरोजयुग्मललुठत् पाणिं प्रमीलामलम् । नो बिंबाधरचुंबनं स्थिरतया कुर्यात् पुमान् प्रेयसीमन्येषां रमयनिकामचकित: कामीति काम्या न ताः ।।१२१।। पौराणां पुरतः प्रपञ्च्य महिमां दत्तः पितृभ्यां स्वयं, यो दत्वा स्वकरं करेण च वृतः सप्तार्चिषां साक्षिकम् । तं हित्वा पतिमीहते यदितरं या कामिनी कामिनं, तन्नूनं कथमात्मसाद्भवति सा स्वच्छंदसंचारिणी ।।१२२।। पूर्णाऽप्यन्यपराभवैकतमसा यत्संगतो ग्रस्यते, प्रादुर्भूतकलंकपंककलित: सुश्लोकशीतद्युतिः । नीचाचारविधौ महानिव भवेदापातमात्रप्रिये, कोऽस्मिन् स्वैरविहारकारिणि सुधीः प्रीत: परस्त्रीजने ।।१२३।।
SR No.022011
Book TitleKasturi Prakar
Original Sutra AuthorN/A
AuthorPunyapalsuri
PublisherParshwabhyuday Prakashan
Publication Year2013
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy