SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ काव्यं काव्यकलाकलापकुशलान् गीतं च गीतप्रियान, स्मेराक्षी स्मरघस्मरातिविधुरान् वार्ता च वार्तारतान् । चातुर्यं च चिरं विचारचतुराँस्तृप्नोति दानं पुनः, सर्वेभ्योऽप्यधिकं जगन्ति युगपत्प्रीणाति यत्त्रिण्यपि ।।१६।। શાલ પ્રમ शीलादेव भवन्ति मानवमरुत्संपत्तयः पत्तयः, शीलादेव भुवि भ्रमन्ति शशभृद्विस्फुर्तयः कीर्तयः, शीलादेव पतन्ति पादपुरतः सच्छक्तयः शक्तयः, शीलादेव पुनन्ति पाणिपुटकं सर्वर्द्धय: सिद्धयः ।।१७।। वाल्लभ्यं वितनोति यच्छति यश: पुष्णाति पुण्यप्रथां, सौन्दर्यं सृजति प्रभां प्रथयति श्रेय:श्रियं सिञ्चति । प्रीणाति प्रभुतां धिनोति च धृतिं सूते सूरौकःस्थिति, कैवल्यं करसात्करोति सुभगं शीलं नृणां शीलितम् ।।१८।।
SR No.022011
Book TitleKasturi Prakar
Original Sutra AuthorN/A
AuthorPunyapalsuri
PublisherParshwabhyuday Prakashan
Publication Year2013
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy