SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ વિવેદપ્રક્રમ काव्यानां करणैः कृतं सुरुचिरैर्वाचा प्रपञ्चैः सृतं, पूर्णं बाहुबलैरलं च तपसां पूरैः प्रसिद्ध्यंकुरैः । एकश्छेकजनैः प्रमोदविपणि: सेव्यो विवेकः सखे ! सर्वा येन विनेन्दुनेव रजनिः श्रेणिर्गुणानां मुधा ।।१६६।। यस्मिन् रम्यरूचेर्यशः कुमुदिनीभर्तुर्भवेत्संभवः, सम्प्राप्त्यै विबुधेश्वरैरिह गवां य: सेव्यते रत्नभूः । येनोद्यत्कतिहारिणी गुणमणिश्रेणिश्च विश्राण्यते, दत्ते कस्य हरेरिवैष न रमा वैदग्ध्य दुग्धोदधिः ।।१६७।। वैराग्यं सुभगं तदेव यशसां राशिः स एवोल्लसन्, स्फुर्तिः सैव शुभा च सैव च गुणश्रेणिमनोहारिणी, ध्यानं धन्यतमं तदेव वचसामोघस्स एवानघस्तारास्विन्दुरमन्दमन्दभवनं यत्रौचिती चञ्चति ।।१६८।।
SR No.022011
Book TitleKasturi Prakar
Original Sutra AuthorN/A
AuthorPunyapalsuri
PublisherParshwabhyuday Prakashan
Publication Year2013
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy