SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ पंचाशत्तमं रुपं। पंचममुदाहरणं यथा पंचषष्टितमं रुपं नष्टं तत: पंचषष्टेरंत्यपरिवर्तेन २४ रूपेण भागे लब्धौ धौ तत: पंचकचतुष्करुपौ द्वौ अंकौ गतौ ताभ्यामग्रेतनस्त्रिको नष्टस्थाने लेख्यः शेषाणां सप्तदशानां चतुर्थपंक्तिपरिवर्तेन भागे लब्धौ द्वौ ततः पंचकचतुष्करुपावंसकौ गतौ तदनेतनस्त्रिकाच स्थाप्यते तदा समयभेद स्यादिति तं मुक्त्वा द्विक स्थाप्य: शेषाणाम् तृतीयपंक्तिपरिवर्तन भागे लब्धौ धौ शेष: एकोऽत्रापि पंचकचतुष्कौ द्वौ गतौ तदनेतनयो स्त्रिकद्धिकयो: स्थापने समयभेद इति तौ त्यक्त्वा एकक: स्थाप्य:, एकशेषत्वात् शेषौ द्वौ अंको क्रमेण स्थाप्यौ यथा ४५१२३ इदं पंचषष्टितमं रुपं। षष्ठमुदाहरणं यथा सप्तमं रुपं नष्टं तत्र सप्तानामंत्यः परिवर्तेन चतुर्विंशत्या भागो नाप्यते ततो त्रैकमपिरुपं गतं नास्ति इति पंचक एव स्थाप्यः अथ सप्तानां चतुर्थपंक्तिपरिवर्तेन षट्करूपेण भागे लब्ध: एक शेषश्चैक: तत: एकोऽत्योंऽकोऽत्र गत: 'नछुदिठविहाणे' त्यादि वक्ष्यमाणगाथया वर्जितत्वात् पंचमपंक्तिस्थित: पंचको गतो मध्ये न गण्यते ऽत्यांकोऽत्र चतुष्करूप एव गत तद्नेतनस्त्रिकश्च नष्टस्थाने लेख्य: एकशेषत्वात् शेषा: अंका: क्रमेण लेख्या: यथा १२४३५। ___अथ सप्तममुदाहरणं तत्र एकचत्वारिंशत्तमरूपंनष्टं एकचत्वारिंशतोऽत्य परिवर्तन भागे लब्ध एक: तत: एकोऽत्योंऽक: पंचको गत: तदनेतनचतुष्को नष्टस्थाने लेख्य: ततश्चतुर्थपंक्तिपरिवर्तन ६ रूपेण शेषसप्तदशानां भागे लब्धौ द्रौ नदिठे' त्यादि गाथया वर्जितत्वात् चतुष्कं टालयित्वा शेषावंत्यादारभ्य द्वावंको पंचकत्रिकरूपौ गतौ ततस्तद्ग्रेतनो द्विकश्चतुर्थपंक्तौ लेख्य: तथा शेषाणां पंचानां तृतीयपंक्तिपरिवर्ते २ रूपेण भागे लब्धौ धौ अत्रापि न दिढे 'त्यादि गाथारीत्या टालयित्वा चतुष्कं, शेषौ द्वौ अंको
SR No.022005
Book TitleAngul Sittari Ane Swopagna Namaskar Stava
Original Sutra AuthorN/A
AuthorMunichandrasuri, Jinkirtisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages54
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy