SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगवन्द्रिका टीका सूत्र २१६ मनुष्याणामौदारिकादिशरीरनिरूपणम् ४५७ प्रक्षिप्तैः मनुष्यैः श्रेणी अपहियते, कालाः असंख्येयाभिः उत्सपिण्यवसर्पिणीभिः, क्षेत्रतः अंगुलप्रथमवर्गमूलप्रत्युत्पन्नम् । मुक्कानि यथा औधिकानि औदारिकाणि तथा भणितव्यानि । मनुष्याणां भदन कियन्ति वैक्रियशरीराणि प्रज्ञप्तानि ? गौतम ! वैक्रियशरीराणि द्विविधानि प्रज्ञप्तानि, तद्यथा-वद्वानि च मुक्तानि च । तत्र खलु यानि तानि बद्धानि तानि खल्लु संग्ख्येयानि समये समये अपहियमाणानि अपहियमाणानि संख्येयेन कालेन अपहियन्ते नो चैत्र खलु अपहृतानि स्युः । मुक्तानि यथा औधिकानि औदारिकाणां मुक्तानि तथा भणितव्यानि । मनुष्याणां भदन्त ! कियन्ति आहारकशरीराणि प्रज्ञप्तानि ? गौतम ! द्विविधानि प्रज्ञमानि तद्यथा-बद्धानि च मुक्तानि च । तत्र खलु यानि तानि बद्धानि तानि खलु स्यात् सन्ति स्यात् न. सन्ति, यदि सन्ति जघन्येन एकं वा द्वे वा त्रीणि वा, उकर्षण सहस्रपृथक्त्वम् । मुक्तानि यथा औषितानि । तैजसकर्मणशरीराणि यथा एतेषामेव औदारिकाणि तथा भणितव्यानि ॥ मू० २१६ ॥ टीका-'मणुस्साणं भंते' इत्यादि पृच्छति-हे भदन्त ! मनुष्याणां कियन्ति औदारिकशरीराणि प्रज्ञप्तानि ? उत्तरयति-गौतम ! बद्धमुक्तलि द्विविधान्यौदारिकशरीराणि प्रज्ञप्तानि । तत्र यानि बद्धान्यौदारिकशीराणि तानि खलु स्यात् कदाचित् संख्येयानि, स्यात्कदाचित् असंख्येयाति । अयं भावः-द्विविधा मनुष्या भवन्ति-गर्भव्युत्क्रान्तिकाः सच्छिमाच । तत्र गर्भव्यु क्रान्तिकाः सर्वकालावस्थायिनो भवन्ति । नास्स्येतादृशः कश्चित् कालो यत्र गर्भव्युत्क्रान्तिका न तिष्ठन्ति । सम्मूच्छिमास्तु कदाचिद् भवन्ति, कदाचिद् सर्वधा न भवन्ति । तेषां जघन्यत उत्कर्षतश्चान्तर्मुहूर्ता. युष्कत्यात् । उत्पनारम्य चोकर्ष तश्चतुर्विशतिमहत्तप्रमाणत्वात् । इत्थं च यदा सम्पूछिमभनुम्माः सर्वथा न भान्ति, केवला भव्युत्क्रान्तिका एम तिष्ठन्ति तदा ते संख्येया एव भवन्ति, संख्येयानामेच गर्भव्युत्क्रान्तिनां सत्त्वान् । महाशरी त्वे प्रत्येकशीत्वे च सति परिमितक्षेत्रवर्तित्वात् । यदातु सम्मृच्छिमारतदा असंख्येयाः, सम्मूछिमानामुष्कर्षतः श्रेयसंख्येयमागलिनभःप्रदेशराशिममाणस्वात् । प्रत्येकशरीरित्यादेषानुभयेषां शरीराणि असंख्येयानि, सम्पूच्छिमानामभावे गर्भनानामेव सत्त्वात् ते च संख्येया एव भवन्ति, अस्तच्छरीराणि संख्येयानि बोध्यानीति । गर्भव्युत्क्रान्तिकानां शरीराणि संख्येयानि भवन्तीति स्वय मेवाभिदधाति मूबकार:-जयपदे संख्येयानि इति । यत्र सर्वस्तोका मनुष्या भवन्ति तजयन्यपदाच्यते । जघन्यपदे तु गर्भ नानामेव मनुष्याणां ग्रहणं भवति न तु सम्मछिमानाम् । सम्मूच्छिमापेक्षया गर्भजानां स्तोकत्वमत एव तेषां अ० ५८ For Private And Personal Use Only
SR No.020967
Book TitleAnuyogdwar Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages928
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy