SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥१ ॥ ॥ २ ॥ ॥ ३ ॥ ॥ ४ ॥ कलिकाल सर्वज्ञ पू.आ.श्री हेमचन्द्रसूरीश्वरजी विरचिता ॥अभिधानचिन्तामणिनाममाला ॥ प्रथमो देवाधिदेवकाण्डः प्रणिपत्यार्हतः सिद्धसाङ्गशब्दानुशासनः । रूढयौगिकमिश्राणां नाम्नां मालां तनोम्यहम् व्युत्पत्तिरहिताः शब्दा रूढा आखण्डलादयः । योगोन्वयः स तु गुणक्रियासंबन्धसंभवः गुणतो नीलकण्ठाद्याः क्रियातः स्रष्ट्रसंनिभाः । स्वस्वामित्वादिसंबन्धस्तत्राहुर्नाम तद्वताम् स्वात्पालधनभुङ्नेतृपतिमत्वर्थकादयः । भूपालो भूधनो 'भूभुग् भूनेता भूपतिस्तथा भूमांश्चेति कविरूढ्या ज्ञेयोदाहरणावली। जन्यात्कृत्कर्तृसृट्स्रष्टुविधातृकरसूसमाः जनकाद्योनिजरुहजन्मभूसूत्यणादयः । धार्याध्वजास्त्रपाण्यङ्कमौलिभूषणभृन्निभाः शालिशेखरमत्त्वर्थमालिभर्तृधरा अपि । भोज्याद्भुगन्धोव्रतलिट्पायिपाशाशनादयः पत्युः कान्ताप्रियतमावधूप्रणयिनीनिभाः । कलत्राद् वररमणप्रणयीशप्रियादयः ॥ ८॥ सख्युः सखिसमा वाह्याद् गामियानासनादयः । ज्ञातेः स्वसृदुहित्रात्मजाग्रजावरजादयः ॥ ९॥ आश्रयात् सद्मपर्यायशयवासिसदादयः । वध्याद् भिवेषिजिद्घातिध्रुगरिध्वंसिशासना: ॥ १० ॥ ॥ ५ ॥ ॥ ६ ॥ ॥ ७ ॥ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy