SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मृतस्वमोक्ता धर्मात्मा मारिव्यसनवारकः । राजबीजी राजवंश्यो वीज्यवंश्यौ तु वंशजे ॥ ३७७ ॥ स्वाम्यमात्यः सुहृत्कोशो राष्ट्रदुर्गबलानि च । राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च ॥ ३७८ ॥ तन्त्रं स्वराष्ट्रचिन्ता स्यादावापस्त्वरिचिन्तनम् । परिस्यन्दः परिकरः परिवारः परिग्रहः ॥ ३७९ ॥ परिच्छदः परिबर्हस्तन्त्रोपकरणे अपि । राजशय्या महाशय्या भद्रासनं नृपासनम् ॥ ३८० ॥ सिंहासनं तु तद्धमं छत्रमातपवारणम् । चामरं बालव्यजनं रोमगुच्छः प्रकीर्णकम् ।। ३८१ ॥ स्थगी ताम्बूलकरको भृङ्गारः कनकालुका । भद्रकुम्भः पूर्णकुम्भः पादपीठं पदासनम् ॥ ३८२ ॥ अमात्य: सचिवो मन्त्री धीसखः सामवायिकः । नियोगी कर्मसचिव आयुक्तो व्यापृतश्च सः ॥ ३८३॥ द्रष्टय तु व्यवहाराणां प्राड्विवाकोऽक्षदर्शकः । महामात्राः प्रधानानि पुरोधास्तु पुरोहितः सौवस्तिकोऽथ द्वारस्थः क्षत्ता स्याद् द्वारपालकः । दौवारिकः प्रतीहारो वेव्युत्सारकदण्डिनः ॥ ३८५ ।। रक्षिवर्गेऽनीकस्थ: स्यादध्यक्षाधिकृतौ समौ । पौरोगवः सूदाध्यक्षः सूदस्त्वौदनिको गुणः ॥३८६ ।। भक्तकारः सूपकारः सूपारालिकवल्लवाः । भौरिकः कनकाध्यक्षो रूप्याध्यक्षस्तु नैष्किकः ॥३८७ ।। स्थानाध्यक्ष: स्थानिक: स्याच्छुल्काध्यक्षस्तु शौल्किकः । शुल्कस्तु घट्टादिदेयं धर्माध्यक्षस्तु धार्मिकः ॥ ३८८ ।। ॥ ३८४ ।। ६१ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy