SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कालागरुः काकतुण्डः श्रीखण्डं रोहणद्रुमः । गन्धसारो मलयजश्चन्दने हरिचन्दने तैलपणिकगोशीर्षो पत्राङ्गं रक्तचन्दनम् । कुचन्दनं ताम्रसारं रञ्जनं तिलपर्णिका जातिकोशं जातिफलं कर्पूरो हिमवालुका । घनसारः सिताभ्रश्च चन्द्रोऽथ मृगनाभिजा मृगनाभिर्मृगमदः कस्तूरी गन्धधूल्यपि । कश्मीरजन्म घुसृणं वर्णं लोहितचन्दनम् वाह्लीकं कुङ्कुमं वह्निशिखं कालेयजागुडे । सङ्कोचपिशुनं रक्तं धीरं पीतनदीपने लवङ्गं देवकुसुमं श्रीसंज्ञमथ कोलकम् । कक्कोलकं कोशफलं कालीयकं तु जापकम् यक्षधूपो बहुरूपः सालवेष्टोऽग्निवल्लभः । सर्जमणिः सर्जरसो रालः सर्वरसोऽपि च धूपो वृकात् कृत्रिमाच्च तुरुष्कः सिहपिण्डकौ । पायसस्तु वृक्षधूपः श्रीवास: सरलद्रवः स्थानात् स्थानान्तरं गच्छन् धूपो गन्धपिशाचिका । स्थासकस्तु हस्तबिम्बमलङ्कारस्तु भूषणम् परिष्काराभरणे च चूडामणिः शिरोमणिः । नायकस्तरलो हारान्तर्मणिर्मुकुटं पुनः Acharya Shri Kailassagarsuri Gyanmandir मौलिः किरीटं कोटीरमुष्णीषं पुष्पदाम तु । मूर्ध्नि माल्यं माला स्रक् च गर्भकः केशमध्यगम् प्रभ्रष्टकं शिखालम्बि पुरो न्यस्तं ललामकम् । तिर्यग्वक्षसि वैकक्षं प्रालम्बमृजुलम्बि यत् ૫૫ For Private And Personal Use Only ॥ ३०५ ॥ ॥ ३०६ ॥ ॥ ३०७ ॥ ॥ ३०८ ॥ ॥ ३०९ ॥ ॥ ३१० ॥ ॥ ३११ ॥ ॥ ३१२ ॥ ॥ ३१३ ॥ ॥ ३१४ ॥ ।। ३१५ ।। ॥ ३१६ ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy