SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नक्रं नर्कुटकं शिङ्खिन्योष्ठोऽधरो रदच्छदः । दन्तवस्त्रं च तत्प्रान्तौ सृक्कणी असिकं त्वधः असिकाधस्तु चिबुकं स्याद् गल्लः सृक्कणः परः । गल्लात् परः कपोलश्च परो गण्डः कपोलतः ततो हनुः श्मश्रुकूर्चमास्यलोम च मासुरीं । दाढका दंष्ट्रिका दाढा दंष्ट्रा जम्भो द्विजा रदाः रदना दशना दन्ता दंशखादनमल्लकाः । राजदन्तौ तु मध्यस्थावुपरिश्रेणिकौ क्वचित् रसज्ञा रसना जिह्वा लोला तालु तु काकुदम् । सुधास्रवा घण्टिका च लम्बिका गलशुण्डिका कन्धरा धमनिग्रवा शिरोधिश्च शिरोधरा । सात्रिरेखा कम्बुग्रीवाऽवटुर्घाय कृकाटिका कृकस्तु कन्धरामध्यं कृकपार्श्वं तु वीतनौ । ग्रीवाधमन्यौ प्राग् नीले पश्चान्मन्ये कलम्बिके गलो निगरणः कण्ठः काकलकस्तु तन्मणिः । अंसो भुजशिरः स्कन्धो जत्रु सन्धिरुरोंऽसगः भुजो बाहुः प्रवेष्टये दोर्बाहाऽथ भुजकोटरः । दोर्मूलं खण्डिकः कक्षा पार्श्वं स्यादेतयोरधः कफोणिस्तु भुजामध्यं कफणिः कूर्परश्च सः । अधस्तस्यामणिबन्धात् स्यात्प्रकोष्ठः कलाचिका प्रगण्डः कूर्परांसान्तः पञ्चशाखः शयः शमः । हस्तः पाणिः करोऽस्यादौ मणिबन्धो मणिश्च सः करभोऽस्मादाकनिष्ठं करशाखाङ्गुली समे । अङ्गुरी चाङ्गुलोऽङ्गुष्ठस्तर्जनी तु प्रदेशिनी ५० For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ २४५ ॥ ॥ २४६ ॥ ॥ २४७ ॥ ।। २४८ ।। ॥ २४९ ॥ ।। २५० ।। ॥ २५१ ॥ ॥ २५२ ॥ ।। २५३ ॥ ॥ २५४ ॥ ।। २५५ ॥ ॥ २५६ ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy