SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ५३॥ ॥ ५४॥ ॥ ५५ ॥ ॥५६॥ ।। ५७ ॥ ॥ ५८॥ उत्पतिष्णुस्तूत्पतिताऽलंकरिष्णुस्तु मण्डनः । भविष्णुर्भविता भूष्णुः समौ वर्तिष्णुवर्तनौ विसृत्वरो विसृमरः प्रसारी च विसारिणि । लज्जाशीलोऽपत्रपिष्णुः सहिष्णुः क्षमिता क्षमी तितिक्षुः सहनः क्षन्ता तितिक्षा सहनं क्षमा । ईर्ष्यालुः कुहनोऽक्षान्तिा क्रोधी तु रोषणः अमर्षणः क्रोधनश्च चण्डस्त्वत्यन्तकोपनः । बुभुक्षितः स्यात्क्षुधितो जिघत्सुरशनायितः बुभुक्षायामशनाया जिघत्सा रोचको रुचिः । पिपासुस्तृषितस्तृष्णक् तृष्णा तर्षोपलासिका पिपासा तृट् तृषोदन्या धीति: पानेऽथ शोषणम् । रसादानं भक्षकस्तु घस्मरोऽद्मर आशितः भक्तमन्नं कूरमन्धो भिस्सा दीदिविरोदनः । अशनं जीवनकं च याजो वाजः प्रसादनम् भिस्सय दग्धिका सर्वरसाग्रं मण्डमत्र तु । दधिजे मस्तु भक्तोत्थे निःस्रावाचाममासराः श्राणा विलेपी तरला यवागूरुष्णिकाऽपि च । सूपः स्यात्प्रहितं सूदो व्यञ्जनं तु घृतादिकम् तुल्यौ तिलान्ने कृसरत्रिसरावथ पिष्टकः । पूपोऽपूपः पूलिका तु पोलिकापोलीपूपिकाः पूपल्यथेषत्पक्वे स्युरभ्यूषाभ्योषपौलयः । निष्ठानं तु तेमनं स्यात्करम्भो दधिसक्तवः घृतपूरो घृतवर: पिष्टपूरश्च घार्तिकः । चमसी पिष्टवतिः स्याद्वटकस्त्ववसेकिमः ॥ ५९॥ ॥ ६०॥ ।। ६१ ॥ ।। ६२ ।। 1॥६४। ३४ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy