SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मेधाविकोविदविशारदसूरिदोष ज्ञाः प्राज्ञपण्डितमनीषिबुधप्रबुद्धाः व्यक्तो विपश्चित्संख्यावान् सन् प्रवीणे तु शिक्षितः । निष्णातो निपुणो दक्षः कर्महस्तमुखाः कृतात् कुशलश्चतुरोऽभिज्ञविज्ञवैज्ञानिकाः पटुः । छेको विदग्धे प्रौढस्तु प्रगल्भः प्रतिभाऽन्वितः कुशाग्रीयमतिः सूक्ष्मदर्शी तत्कालधीः पुनः । प्रत्युत्पन्नमतिर्दूराद् यः पश्येद्दीर्घदर्श्यसौ हृदयालुः सहृदयश्चिद्रूपोऽप्यथ संस्कृते । व्युत्पन्नप्रहतक्षुण्णा अन्तर्वाणिस्तु शास्त्रवित् वागीशो वाक्पतौ वाग्मी वाचोयुक्तिपटुः प्रवाक् । समुखो वावदूकोऽथ वदो वक्ता वदावदः स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगर्त्यवाक् । यद्वदोऽनुत्तरे दुर्वाक् कद्वदे स्यादथाधरः हीनवादिन्येडमूकानेडमूकौ त्ववाक्श्रुतौ । रवणः शब्दनस्तुल्यौ कुवादकुचरौ समौ लोहलोऽस्फुटवाग् मूकोऽवागसौम्यस्वरोऽस्वरः । वेदिता विदुरो विन्दुर्वन्दारुस्त्वभिवादकः आशंसुराशंसितरि कट्वरस्त्वतिकुत्सितः । निराकरिष्णुः क्षिप्नुः स्याद्विकासी तु विकस्वरः दुर्मुखे मुखराबद्धमुखौ शक्ल प्रियंवदः । दानशीलः स वदान्यो वदन्योऽप्यथ बालिशः मूढो मन्दो यथाजातो बालो मातृमुखो जडः । मूर्खोऽमेधोविवर्णाज्ञा वैधेयो मातृशासितः 30 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ ५ ॥ ॥ ६॥ ॥ ७ ॥ 11 2 11 ॥ ९ ॥ ॥ १० ॥ ॥ ११ ॥ ॥ १२ ॥ ॥ १३ ॥ ॥ १४ ॥ ॥ १५ ॥ ॥ १६ ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy