________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३०० ॥
॥ ३०१ ॥
|| ३०२ ॥
॥ ३०३ ॥
॥ ३०४ ॥
॥ ३०५ ॥
पवनेष्टं शिरोवृन्तं, मूषणं कोलकं च तत् । पिप्पल्यां च पला कृष्णा, वैदेही मागधी कणा शौण्डी श्यामोषणा कोलोपकुल्या कृष्णतन्दुला । तन्मूलं ग्रन्थिकं सर्वग्रन्थिकं चटकाशिरः समूलकं कोलमूलं, कटुग्रन्थिकमूषणम् । चविकायां तथा चव्यं, चवनं कालवल्लयपि तत्फले वसिरो हस्तिपिप्पली श्रेयसीत्यपि । गिरिपामरस्फोता, विष्णुकान्ता पसजिता सा तु श्वेता श्वेतनामा, कटभी श्वेतपुष्पिका । श्वेतस्यन्दाऽश्वखुरश्च, कृष्णा त्वव्यक्तगन्धिका नीलस्यन्दा नीलपुष्पी महाश्वेताऽङ्गवन्दना । स्यादिन्द्रवारुणी त्वैन्द्री, विषादनी गवादनी इन्द्रैर्वारुः क्षुद्रफला, गोदुघा च गवाक्ष्यपि द्वितीयेन्द्रवारुण्यां तु, चित्रफला महाफला आत्मरक्षा विशाला च, त्रपुसी तुम्बसीत्यपि । वचायामुग्रगन्धोग्रा, जटिला शतपविका इक्षुकर्णिका गोलोमी, लोमिशा सूतनाशिनी । अन्या श्वेतवचा मेध्या, षड्ग्रन्था हैमवत्यपि शारिवायां गोपकन्या, गोपवल्ली प्रतानिका। गोप्या स्फोता लता श्वेता, शरटा काष्ठशारिवा नागजिह्वाथ सा कृष्णभद्रा चन्दनशारिवा । भद्रवल्ली कृष्णवल्ली चन्दनोत्पलशारिवा मूर्वायां मोरया देवी, मधुश्रेणी मधूलिका। देवश्रेणी मधुरसा, गोकर्णी तेजनी स्रवा
॥ ३०६॥
|| ३०७॥
॥ ३०८॥
|| ३०९ ॥
|| ३१० ॥
॥ ३११ ॥
3२८
For Private And Personal Use Only