________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १९९ ॥
॥ २००॥
। २०१॥
॥ २०२॥
॥ २०३।।
।। २०४॥
सदादानो गन्धगजे हेरम्बेऽभ्रमतङ्गजे । संयमनं व्रते बन्धे संयमनी यमस्य पू: समादानं समीचीनग्रहणे नित्यकर्मणि । समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि संवदनन्तु संवादे समालोचे वशीकृतौ । समुत्थानं निदानेऽभियोगे संवाहनं पुनः वाहनेऽङ्गमर्दने च सम्प्रयोगी तु कामुके। कलाकेलौ सुप्रयोगे सरोजिनी सरोरुहे सरोरुहिण्यां कासारे स्तनयितुः पयोमुचि । मृत्यौ स्तनिते रोगे च सारसनमुरच्छदे काञ्च्यां च सामयोनिस्तु सामोत्थे द्रुहिणे गजे। सामिधेनी समिदृचोः सुयामुनो जनार्दने वत्सराजे प्रासादेऽद्रिभेदे चाथ सुदर्शनः । विष्णोश्चक्रे सुदर्शन्यमरावत्यां सुदर्शना आज्ञायामौषधीभेदे मेरुजम्ब्वां सुरीभिदि । सौदामिनी तडिद्भेदतडितोरप्सरोभिदि हर्षयित्नुः सुते स्वर्णेऽवलेपो गर्वलेपयोः । दूषणेऽप्यपलापस्तु प्रेमापह्नवयोरथ उपतापो गदे तापे जलकूप्यन्धुगर्भके। सरस्यां जीवपुष्पन्तु दमनके फणिज्जके नागपुष्पस्तु पुन्नागे चम्पके नागकेसरे । परिवापो जलस्थाने पर्युप्तिपरिवारयोः पिण्डपुष्पं जपायां स्यादशोके सरसीरुहे । बहुरूपः स्मरे विष्णौ सरटे घूणके शिवे
॥ २०५॥
॥ २०६॥
॥ २०७॥
। २०८॥
॥ २०९॥
॥ २१०॥
૨૮૧
For Private And Personal Use Only