SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रणिहितं तु सम्प्राप्तनिहितयोः समाहिते । प्रतिक्षिप्तं प्रतिहते निषिद्धे प्रेषितेऽपि च प्रधूपिता क्लेशितायां रविगन्तव्यदिश्यपि । प्रव्रजिता तु मुण्डीर्यां तापस्यां मांसिकौषधौ प्रजापतिर्ब्रह्मयज्ञोर्जामातरि दिवाकरे । वह्नौ त्वष्टरि दक्षादौ प्रतिकृतिस्तु पूजने प्रतिमायां प्रतीकारे प्रतिपत्तिस्तु गौरवे । प्राप्तौ प्रवृत्तौ प्रागल्भ्ये बोधे परिगतं गते प्राप्तवेष्टितयोर्ज्ञाते पल्लवितं सपल्लवे । लाक्षारक्ते तते पञ्चगुप्तश्चार्वाकदर्शने कमठे परिवर्तस्तु कूर्मराजे पलायने । युगान्ते विनिमये च परिघातस्तु घातने अस्त्रे चाथ पशुपतिः पिनाकिनि हुताशने । पाशुपत : शिवमल्लयां पशुपत्यधिदैवते पारिजातस्तु मन्दारे पारिभद्रे सुरद्रुमे । पारापतः कलरवे गिरौ मर्कटतिण्डुके पारावती तु लवलीफलगोपालगीतयोः । पुष्पदन्तस्तु दिङ्नागे जिनभेदे गणान्तरे पुष्पदन्तौ च चन्द्रार्कावेकोक्त्याथ पुरस्कृतम् । पूजिते स्वीकृते सिक्तेऽभिशस्तेऽग्रकृतेऽपि च भोगवती तु सर्पाणां नगरेऽपि सरित्यपि । रङ्गमाता जतुचन्द्योर्लक्ष्मीपतिर्जनार्दने पूगे लवङ्गवृक्षे च व्यतीपात उपद्रवे । योगभेदेऽपयाने च, वनस्पतिद्रुमात्रके २७४ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ।। ११५ ।। ॥ ११६ ॥ ॥ ११७ ॥ ॥ ११८ ॥ ॥ ११९ ॥ ॥ १२० ॥ ॥ १२१ ॥ ॥ १२२ ॥ ॥ १२३ ॥ ॥ १२४ ॥ ।। १२५ ।। ॥ १२६ ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy