SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मारलोकखजिद् धर्मराजो विज्ञानमातृकः । महामैत्रो मुनीन्द्रश्च बुद्धाः स्युः सप्त ते त्वमी विपश्यी शिखी विश्वभूः ककुच्छन्दश्च काञ्चनः । काश्यपश्च सप्तमस्तु शाक्यसिंहोऽर्कबान्धवः तथा राहुलसूः सर्वार्थसिद्धो गोतमान्वयः । मायाशुद्धोदनसुतो देवदत्ताप्रजश्च सः असुरा दितिदनुजाः पातालौकः सुरारयः । पूर्वदेवाः शुकशिष्या विद्यादेव्यस्तु षोडश रोहिणी प्रज्ञप्तिर्वज्रशृङ्खला कुलिशाङ्कुशा । चक्रेश्वरी नरदत्ता काल्यथासौ महापरा गौरी गान्धारी सर्वास्त्रमहाज्वाला च मानवी । वैरोट्याच्छुप्ता मानसी महामानसिकेति ताः वाग् ब्राह्मी भारती गौर्गीर्वाणी भाषा सरस्वती । श्रुतदेवी वचनं तु व्याहारो भाषितं वचः सविशेषणमाख्यातं वाक्यं स्त्याद्यन्तकं पदम् । राद्धसिद्धकृतेभ्योऽन्त आप्तोक्तिः समयागमौ आचाराङ्गं सूत्रकृतं स्थानाङ्गं समवाययुक् । पञ्चमं भगवत्यङ्गं ज्ञाताधर्मकथाऽपि च उपासकान्तकृदनुत्तरोपपातिकाद् दशाः । प्रश्नव्याकरणं चैव विपाकश्रुतमेव च इत्येकादश सोपाङ्गान्यङ्गानि द्वादशं पुनः । दृष्टिवादो द्वादशाङ्गी स्याद् गणिपिटकाह्वया परिकर्मसूत्रपूर्वानुयोगपूर्वगतचूलिकाः पञ्च । स्युर्हष्टिवादभेदाः पूर्वाणि चतुर्दशापि पूर्वगते ૧ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ १४९ ॥ ।। १५० ।। ॥ १५१ ॥ ॥ १५२ ॥ ॥ १५३ ॥ ॥ १५४ ॥ ।। १५५ ॥ ॥ १५६ ॥ ॥ १५७ ॥ ॥ १५८ ॥ ॥ १५९ ॥ ॥ १६० ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy