SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। ३५५ ॥ ॥ ३५६ ॥ ॥ ३५७ ॥ ॥ ३५८॥ ।। ३५९ ॥ ॥ ३६० ॥ कर्त्तनं योषितां तुलसेवने च्छेदनेऽपि च । क्रन्दनं रोदने ह्वाने कल्पनं कृप्तिकर्त्तने कल्पनेभसज्जायां कलापी प्लक्षकेकिनोः । कञ्जुकी जोङ्गकतरौ महल्ले पन्नगे विटे काञ्चनं हेम्नि किञ्जल्के काञ्चनो नागकेसरे। उदुम्बरे काञ्चनारे पुन्नागे चम्पकेऽपि च काञ्चनी तु हरिद्रायां कानीन: कन्यकासुते । कर्णे व्यासे काननं तु ब्रह्मास्ये विपिने गृहे कुहनो मूषिके सेर्पा कुहना दम्भकर्मणि । कुण्डली वरुणे सर्प मयूरे कुण्डलान्विते केतनं सदने चिह्ने कृत्ये चोपनिमन्त्रणे। केसर्यर्वणि पुत्रागे नागकेसरसिंहयोः कौपीनं गुह्यदेशे स्यादकार्ये चीवरान्तरे । कौलीनं जनवादेऽहिपशुपक्षिशुनां युधि अकार्ये गुह्यकौलीन्ये गहनं वनदुःखयोः । गहरे कलिले चापि गन्धनं तु प्रकाशने सूचनोत्साहहिंसासु गर्जनं स्तनिते क्रुधे। गुञ्जनं विषदिग्धस्य पशोमा॑से रसोनके गोस्तनो हारभेदे स्याद् गोस्तनी हारहूरिका । घट्टना चलनावृत्योश्चलनः पादकम्प्रयोः चलनं कम्पे चलनी चारीभिद्वस्त्रघघरी । चन्दनो वानरभिदि श्रीखण्डे चन्दनी नदी चेतनः स्यात्सहृदयप्राणिनोश्चेतना तु धीः । चोलकी तु नागरङ्गे किष्कुपर्वकरीरयोः ॥ ३६१ ॥ ॥ ३६२ ।। ॥ ३६३ ॥ ॥ ३६४॥ ॥ ३६५ ॥ ॥३६६ ॥ २30 For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy