________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१६३ ॥
॥ १६४॥
॥ १६५ ॥
॥ १६६ ॥
॥ १६७॥
।। १६८ ॥
कनिष्ठोऽल्पेऽनुजे यूनि कनिष्ठा त्वन्तिमाङ्गुलौ । कमठ: कच्छपे दैत्यविशेषे मुनिभाजने जरठ: कर्कशे जीर्णे नर्मठौ षिड्गचूचुकौ । प्रकोण्ठः कूपराधस्ताद्भूपकक्षान्तरेऽपि च हस्ते च विस्तृतकरे प्रतिष्ठागौरवे स्थितौ । छन्दोजातौ यागसिद्धौ मत्कुष्ठौ धान्यमन्थरौ लघिष्ठो भेलकेऽत्यल्पे स्याद्वरिष्ठस्तु तित्तिरे। वरिष्ठं मरिचे ताने वरोरूतमयोरपि वैकुण्ठो वासवे विष्णौ श्रीकण्ठः कुरुजाङ्गले । शङ्करे चाथ साधिष्ठोऽत्यर्थे दृढतमेऽपि च कारण्डो मधुकोशेऽसौ कारण्डवे दलाटके । कूष्माण्डो गणकर्कारू कूष्माण्ड्यावम्बिकौषधी कोदण्ड: कार्मुके देशभेदभ्रूलतयोरपि । गारुडं तु मरकते विषशास्त्रेऽथ तित्तिड: दैत्यभेदे तित्तिडी तु कालदासे महीरुहे। तिन्तिडी चक्रे चिञ्चायां निर्गुण्डी सिन्धुवारक: नीलशेफाल्यब्जकन्दः प्रचण्ड: स्यात्प्रतापिनि। वलक्षकरवीरेऽपि प्रकाण्डः स्तम्बशस्तयोः स्कन्धमूलान्तरे च द्रोः पिचण्डोऽवयवे पशोः । उदरे चाथ पूत्यण्डो गन्धैणे गन्धकीटके भेरुण्डौ भीषणखगौ भेरुण्डा देवताभिदि । मारण्डोऽण्डे भुजङ्गानां मार्गे गोमयमण्डले मार्तण्डस्तरणौ क्रोडे वरण्डो वदनामये । अन्तरावेदौ सङ्घ च वतण्डा शारिका क्षुरी
।। १६९ ॥
॥ १७० ॥
॥ १७१ ॥
।। १७२ ॥
॥ १७३॥
।। १७४ ॥
૨૧૪
For Private And Personal Use Only