SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाटितं दारितं भिन्ने विदर: स्फुटनं भिदा। अङ्गीकृतं प्रतिज्ञातमूरीकृतोरुरीकृते ॥ १२४॥ संश्रुतमभ्युपगतमुररीकृतमाश्रुतम्। संगीर्णं प्रतिश्रुतं च छिन्ने लूनं छितं दितम् ॥ १२५ ॥ छेदितं खण्डितं वृणं कृत्तं प्राप्ते तु भावितम् । लब्धमासादितं भूतं पतिते गलितं च्युतम् ॥ १२६॥ स्रस्तं भ्रष्टं स्कन्नपन्ने संशितं तु सुनिश्चितम् । मृगितं मागितान्विष्टान्वेषितानि गवेषिते ॥ १२७॥ तिमिते स्तिमिताक्लिन्नसााोन्नाः समुत्तवत् । प्रस्थापितं प्रतिशिष्टं प्रतिहतप्रेषिते अपि ॥ १२८ ।। ख्याते प्रतीतप्रज्ञातवित्तप्रथितविश्रुताः । तप्ते संतापितो दूनो धूपायितश्च धूपितः ॥ १२९ ॥ शीने स्त्यानमुपनतस्तूपसन्न उपस्थितः । निर्वातस्तु गते वाते निर्वाणः पावकादिषु ॥ १३० ॥ प्रवृद्धमेधितं प्रौढं विस्मृतान्तर्गते समे। उद्वान्तमुद्गते गूनं हन्ने मीढं तु मूत्रिते ॥ १३१ ॥ विदितं बुधितं बुद्धं ज्ञातं सितगते अवात् । मनितं प्रतिपन्नं च स्यन्ने रीणं स्नुतं स्रुतम् ॥ १३२॥ गुप्तगोपायितत्रातावितत्राणानि रक्षिते । कर्म क्रिया विधा हेतुशून्या त्वास्या विलक्षणम् ॥ १३३ ॥ कार्मणं मूलकाथ संवननं वशकिया। प्रतिबन्धे प्रतिष्टम्भः स्यादास्याऽऽस्थाऽऽसना स्थितिः ॥१३४ ॥ परस्परं स्यादन्योन्यमितरेतरमित्यपि । आवेशाटोपौ संरम्भे निवेशो रचना-स्थिती ૧ર૦ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy