SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः । सिंहशार्दूलनागाद्यास्तल्लजश्च मतल्लिका मचिका प्रकाण्डो द्वौ प्रशस्यार्थप्रकाशकाः । गुणोपसर्जनोपाग्राण्यप्रधानेऽधमं पुनः निकृष्टमणकं गर्ह्यमवद्यं काण्डकुत्सिते । अपकृष्टं प्रतिकृष्टं याप्यं रेफोऽवमं ब्रुवम् खेटं पापमपशदं कुपूयं चेलमर्व च । तदासेचनकं यस्य दर्शनाद् दृग् न तृप्यति चारु हारि रुचिरं मनोहरं वल्गु कान्तमभिरामबन्धुरे । वामरुच्यसुषमाणि शोभनं मञ्जुमञ्जुलमनोरमाणि च साधुरम्यमनोज्ञानि पेशलं हृद्यसुन्दरे । काम्यं कम्रं कमनीयं सौम्यं च मधुरं प्रियम् व्युष्टिः फलमसारं तु फल्गु शून्यं तु रिक्तकम् । शून्यं तुच्छं वशिकं च निबिडं तु निरन्तरम् निबिरीसं घनं सान्द्रं नीरन्ध्रं बहलं दृढम् । गाढमविरलं चाथ विरलं तनु पेलवम् नवं नवीनं सद्यस्कं प्रत्यग्रं नूत्ननूतने । नव्यं चाभिनवे जीर्णे पुरातनं चिरंतनम् पुराणं प्रतनं प्रत्नं जरन्मूर्त्तं तु मूर्तिमत् । उच्चावचं नैकभेदमतिरिक्ताधिके समे Acharya Shri Kailassagarsuri Gyanmandir ૧૨૩ For Private And Personal Use Only ॥ ७६ ॥ ॥ ७७ ॥ ॥ ७८ ॥ ।। ७९ ।। ॥ ८० ॥ ॥ ८१ ॥ ॥ ८२ ॥ ॥ ८३ ॥ ॥ ८४ ॥ पार्श्वं समीपं सविधं ससीमाभ्याशं सवेशान्तिकसन्निकर्षाः । सदेशमभ्यग्रसनीडसंनिधानान्युपान्तं निकटोपकण्ठे सन्निकृष्टसमर्यादाभ्यर्णान्यासन्नसंनिधी । अव्यवहितेऽनन्तरं संसक्तमपटान्तरम् 1124 11 ॥ ८६ ॥ ॥ ८७ ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy