________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
व्याघ्रादयो लोमविषा नखविषा नरादयः । लालाविषास्तु लूताद्याः कालान्तरविषाः पुनः मूषिकाद्या दूषीविषं त्ववीर्यमौषधादिभिः । कृत्रिमं तु विषं चारं गरश्चोपविषं च तत् भोगोऽहिकायो दंष्ट्राशीर्दव भोग: फट: स्फट: । फणोऽहिकोशे तु निर्वयनीनिर्मोककझुकाः ॥ इति स्थलचराः पञ्चेन्द्रियाः ॥
विहगो विहङ्गमखगौ पतगो विहङ्गः शकुनिः शकुन्ति: शकुनौ विवयः शकुन्ताः । नभसङ्गमो विकिरपत्ररथौ विहायो द्विजपक्षिविष्किरपतत्त्रिपतत्पतङ्गाः
पित्सन् नीडाण्डजो गौकाश्चञ्चश्चञ्चः सृपाटिका । त्रोटिश्च पत्त्रं पतत्त्रं पिच्छं वाजस्तनूरुहम्
पक्षो गरुच्छदश्चापि पक्षमूलं तु पक्षतिः । प्रडीनोड्डीनसण्डीनडयनानि नभोगतौ
पेशी कोशोऽण्डे कुलायो नीडे केकी तु सर्पभुक् । मयूरबर्हिणौ नीलकण्ठो मेघसुहृच्छिखी शुक्लापाङ्गोऽस्य वाक् केका पिच्छं बर्हं शिखण्डकः । प्रचलाकः कलापश्च मेचकश्चन्द्रकः समौ
वनप्रियः परभृतस्ताम्राक्षः कोकिलः पिकः । कलकण्ठः काकपुष्टः काकोऽरिष्टः सकृत्प्रजः
आत्मघोषश्चिरजीवी घूकारि : करटो द्विकः । एकदृग्बलिभुग्ध्वाङ्क्षोमौकुलिर्वायसोऽन्यभृत्
Acharya Shri Kailassagarsuri Gyanmandir
૧૧૨
For Private And Personal Use Only
॥ ३७९ ॥
॥ ३८० ॥
।। ३८१ ॥
॥ ३८२ ॥
॥ ३८३ ॥
॥ ३८४ ॥
॥ ३८५ ॥
॥ ३८६ ॥
॥ ३८७ ॥
॥ ३८८ ॥