SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हस्ती मतङ्गजगजद्विपकर्यनेकपा मातङ्गवारणमहामृगसामयोनयः । स्तम्बरेमद्विरदसिन्धुरनागदन्तिनो दन्तावल: करटिकुञ्जरकुम्भिपीलवः इभः करेणुर्गजोऽस्य स्त्री धेनुका वशाऽपि च । भद्रो मन्दो मृगो मिश्रश्चतस्रो गजजातयः ॥ २८४ ॥ कालेऽप्यजातदन्तश्च स्वल्पाङ्गश्चापि मत्कुणौ । पञ्चवर्षो गजो बालः स्यात्पोतो दशवर्षक: ॥ २८५ ॥ विक्को विंशतिवर्षः स्यात्कलभस्त्रिंशदब्दकः । यूथनाथो यूथपतिमत्ते प्रभिन्नगजितौ ॥ २८६॥ मदोत्कटो मदकलः समावुद्वान्तनिर्मदौ । सज्जितः कल्पितस्तिर्यग्घाती परिणतो गजः ॥ २८७ ॥ व्यालो दुष्टगजो गम्भीरवेद्यवमताङ्कुशः । राजवाह्यस्तूपवाह्यः सन्नाह्यः समरोचितः ॥ २८८॥ उदग्रदन्नीषादन्तो बहूनां घटना घटा । मदो दानं प्रवृत्तिश्च वमथुः करशीकरः ॥ २८९ ॥ हस्तिनासा करः शुण्डा हस्तोऽग्रं त्वस्य पुष्करम् । अङ्गुलिः कर्णिकादन्तौ विषाणौ स्कन्ध आसनम् ॥२९ ॥ कर्णमूलं चूलिका स्यादीषिका त्वक्षिकूटकम् । अपाङ्गदेशो निर्याणं गण्डस्तु करटः कटः ॥ २९१ ॥ अवग्रहो ललाटं स्यादारक्षः कुम्भयोरघः । कुम्भौ तु शिरसः पिण्डौ कुम्भयोरन्तरं विदुः ॥ २९२ ॥ वातकुम्भस्तु तस्याधो वाहित्थं तु ततोऽप्यधः । वाहित्थाधः प्रतिमानं पुच्छमूलं तु पेचक: ॥ २९३॥ दन्तभागः पुरोभाग: पक्षभागस्तु पार्श्वकः । पूर्वस्तु जङ्घादिदेशो गात्रं स्यात्पश्चिमोऽपरा ॥ २९४॥ ૧૦૪ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy