SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १८८॥ ।। १८९॥ ॥ १९० ॥ ॥ १९१ ॥ ॥ १९२ ॥ ॥ १९३ ॥ स्थाणौ तु ध्रुवक: शङ्कुः काष्ठे दलिकदारुणि । निष्कुहः कोटरो मज्जा मञ्जरिवलरिश्च सा पत्रं पलाशं छदनं बर्ह पर्ण छदं दलम् । नवे तस्मिन्किसलयं किसलं पल्लवोऽत्र तु नवे प्रवालोऽस्य कोशी शुङ्गा माढिदलस्नसा । विस्तारविटपौ तुल्यौ प्रसूनं कुसुमं सुमम् पुष्पं सूनं सुमनसः प्रसवश्च मणीवकम् । जालकक्षारको तुल्यौ कलिकायां तु कोरकः कुड्मले मुकुलं गुञ्छे गुच्छस्तबकगुत्सकाः । गुलुच्छोऽथ रजः पौष्पं परागोऽथ रसो मधु मकरन्दो मरन्दश्च वृन्तं प्रसवबन्धनम् । प्रबुद्धोज्जृम्भफुल्लानि व्याकोशं विकचं स्मितम् उन्मिषितं विकसितं दलितं स्फुटितं स्फुटम् । प्रफुल्लोत्फुल्लसंफुल्लोच्छसितानि विजृम्भितम् स्मेरं विनिद्रमुन्निद्रविमुद्रहसितानि च । संकुचितं तु निद्राणं मीलितं मुद्रितं च तत् फलं तु सस्यं तच्छुष्कं वानमाम शलाटु च । ग्रन्थिः पर्व परुर्बीजकोशी शिम्बा शमी शिमिः शिम्बिश्च पिप्पलोऽश्वत्थः श्रीवृक्षः कुञ्जराशनः । कृष्णावासो बोधितरुः प्लक्षस्तु पर्कटी जटी न्यग्रोधस्तु बहुपात् स्याद्वटो वैश्रवणालयः । उदुम्बरो जन्तुफलो मशकी हेमदुग्धक: काकोदुम्बरिका फल्गुमलयुर्जघनेफला। आम्रचूतः सहकारः सप्तपर्णस्त्वयुक्छदः ॥ १९४॥ ॥ १९५॥ ॥ १९६ ।। ॥ १९७ ॥ ॥ १९८॥ ॥ १९९ ॥ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy