SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥१२॥ ॥ १३ ॥ ॥ १४॥ ॥ १५ ॥ ॥ १७ ॥ अभावैकान्तपक्षेऽपि भावापह्नववादिनः । बोधवाक्यं प्रमाणं न केन साधनदूषणम् विरोधानोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्ति वाच्यमिति युज्यते कथञ्चित्ते सदेवेष्टं कथञ्चिदसदेव तत् । तथोभयमवाच्यं च नययोगान्न सर्वथा सदेव सर्वं को नेच्छेत् स्वरूपादिचतुष्टयात् । असदेव विपर्यासान्न चेन्न व्यवतिष्ठते क्रमार्पितद्वयाद् द्वैतं सहावाच्यमशक्तितः। अवक्तव्योत्तराः शेषास्त्रयो भङ्गाः स्वहेतुतः अस्तित्वं प्रतिषेध्येनाविनाभाव्येकर्मिणि । विशेषणत्वात्साधर्म्यं यथा भेदविवक्षया नास्तित्वं प्रतिषेध्येनाविनाभाव्येकर्मिणि । विशेषणत्वाद्वैधयं यथाऽभेदविवक्षया विधेयप्रतिषेध्यात्मा विशेष्यः शब्दगोचरः । साध्यधर्मो यथा हेतुरहेतुश्चाप्यपेक्षया शेषभङ्गाश्च नेतव्या यथोक्तनययोगतः । न च कश्चिद्विरोधोऽस्ति मुनीन्द्र ! तव शासने एवं विधिनिषेधाभ्यामनवस्थितमर्थकृत् । नेति चेन्न यथा कार्य बहिरन्तरुपाधिभिः धर्मे धर्मेऽन्य एवार्थो धर्मिणोऽनन्तधर्मणः । अङ्गित्वेऽन्यतमान्तस्य शेषान्तानां तदङ्गता एकानेकविकल्पादावुत्तरत्राऽपि योजयेत् । प्रक्रियां भगिनीमेनां नयैर्नयविशारदः ॥ १८॥ ॥ १९ ॥ ।। २० ॥ ।। २२॥ ॥ २२ ॥ ॥ २३ ॥ ८६ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy