SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। ४०८ ॥ ॥४०९ ॥ ।। ४१०॥ ॥ ४११ ।। ॥४१२॥ ॥ ४१३॥ इतरः प्राकृतो नीचः, पामरश्च पृथग्जनः । पुलिन्द: शबरो भिल्ल:, किरातश्च वनेचर: उत्पत्तिर्जन्म जनन-मुत्पातो जनिरुद्भवः । जीवितं चासवः प्राणाः, श्वासश्च श्वसितं मरुत् युवा वयस्थस्तरुणः, तारुण्यं यौवनं वयः । जरीयान् स्थविरो वृद्धः, वार्धक्यं विश्रसा जरा गुणवानुत्तमः श्रेष्ठो, योग्य: पूज्यो महान् गुणी । श्रेयान् शिष्टः सदाचारः, साधुसभ्यार्यसज्जनाः विख्यातः प्रथितो ज्ञातः, प्रतीतो विश्रुतोऽपि च । दातोदारो वदान्यश्च, त्राता गोप्ता च रक्षक: कर्णेजपश्च पिशुनो, द्विजिह्वो दुर्जनः खलः । पापो धूर्तः शठ: क्रूरः, क्षुद्रो नीचोऽधमोऽनृजुः दृप्तोऽभिमानी गर्विष्टो, गर्वितः स्तब्ध उन्नतः । कलङ्को लाञ्छनं लक्ष्म, चिह्नमङ्कश्च लक्षणम् वैरं विरोधो विद्वेषः, शृङ्खलो निगडोण्डुकः । विघ्नान्तरायप्रत्यूहाः, रोगातङ्कगदामयाः पाषाणः प्रस्तरो ग्रावो, दृषदश्मोपल: शिला । रेणुः धूली रजः पांशुः, पङ्कश्चिखिल्लकर्दमौ व्यवसायोद्यमोद्योगाऽभियोगोत्साहविक्रमाः । खुरली तु श्रमोऽभ्यासः, संवाहनं तु मर्दनम् मिष्टः स्वादुश्च मधुरः, कषायस्तुवरो रसः । पाचनोऽम्लो दन्तशठः, कटुकः कटुरूषणौ स्याल्लवणः सर्वरसः, क्षारस्तिक्तं तु तीक्ष्णवत् । रक्तः शोणोऽरुणस्ताम्रो लोहितः पाटलोऽपि च । ४१४॥ ।। ४१५ ॥ ॥ ४१६ ॥ ॥ ४१७ ॥ ॥ ४१८॥ ॥ ४१९॥ 30२ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy