SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चन्द्रोद्योतः स्मृता ज्योत्स्ना, चन्द्रिका कौमुदीन्दुरुक् । नक्षत्रमृक्षं भं धिष्ण्यं, तारा ज्योतिरुडुर्ग्रहः मयूखकिरण भानु- र्मरीचिदीधितिकराः । पादो गभस्तिरुत्रो गौर्ज्योतिर्धामांशुरश्मयः अर्चिधिष्णिर्घृणिस्तेजो, भाः प्रभा त्विट् छविर्द्युतिः । शोचिर्दीप्तिर्महो वच्चें, रोचिर्भा रुग्रुचिर्वसुः शिशिरः शीतलः शीतस्तुषारच हिमो जडः । उष्णं तिग्मं खरं तीक्ष्णं, चण्डं तीव्रं तथा पटुः मङ्गलोङ्गारको भौम, आरोवक्रः कुजः स्मृतः । बुधस्तु सौम्यो ज्ञश्चान्द्रिः, गुरुर्जीवो बृहस्पतिः वाचस्पतिः सुराचार्यो, गीः पतिर्धिषणोङ्गिराः । शुक्रो दैत्यगुरुः काव्य, उषना भार्गवः कविः शनिः शनैश्चरः शौरिर्मन्दश्छायासुतोऽसितः । राहुस्तमः सैंहिकेयः, स्वर्भाणुस्तु विधुन्तुदः केतुः शिखी वाहिक: स्यात्, ध्रुवस्तूत्तानपादजः । सप्तर्षयोऽत्रि प्रमुखाः, अगस्तिः कुम्भजोऽब्धिपः अश्विन्यादीनि नक्षत्राण्यष्यविंशतिसङ्ख्यका । लग्नानि राशयश्चैव, मेषाद्या द्वादशः स्मृताः अहर्दिनं दिवं घत्रं, दिवसो वासरो दिवा । प्रातः प्रभात: प्रत्यूषोमुखं कलयं महर्मुखम् रजनी यामिनी रात्रि - स्त्रियामा शर्वरी निशा । निशीथिनी क्षपा दोषा, क्षणदा च विभावरी अन्धकारं च तिमिरं, ध्वान्तं संतमसं तमः । तमिस्रमन्धतमसं, भूच्छाया तामसं रजः 383 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ ७० ॥ ॥ ७१ ॥ ॥ ७२ ॥ ॥ ७३ ॥ ॥ ७४ ॥ ।। ७५ ।। ॥ ७६ ॥ ॥ ७७ ॥ 1162 11 ।। ७९ ।। ॥ ८० ॥ 11 68 11
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy