SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org निचोलको निचुलको निचोलं च निचोल्यपि । निचुलोऽवसत्थिकायां स्मृता पर्यस्तिकायुता पर्यस्तिश्चापि पर्यङ्कः पल्यङ्कोऽपि कुथे पुनः । वर्णपरिस्तोम-वर्णौ परिस्तोमवदास्तरः आस्तरणं प्रवेणीयुक् प्रवेणि: प्रतिसीरिका । जवनी जवनिकापि यवनी यमनीति च दृष्ये स्थूलं स्थुडमपि, पटकुट्यां तु केणिका । केणिः, पल्लवादिकृता शय्या संस्तर - प्रस्तरौ स्रस्तरोऽपि च, तल्पे तु शयनं शयनीयवत् । शय्यापि च खट्वायां तु मञ्चवद् मञ्चकः स्मृतः पर्यङ्कोऽपि च पल्यङ्कः, पतद्ग्राह- पतद्ग्रहौ । प्रतिग्रह - प्रतिग्राहौ पालेऽथो दर्पणे मतः मकुरो मुकुरस्तद्वद् मङ्करोऽप्यात्मदर्शवत् । आदर्शो, वस्त्रासने त्वासन्दा - सन्द्यौ च सन्दवत् सन्दी भोजन आच्छादे एकोक्त्या चोभयोरपि । कशिपुर्दन्त्य - तालव्यमध्यः स्याच्छयनासने एकोक्त्योशीरमौशीरं पलङ्कशा पलङ्कषा । राक्षा रक्षा च लाक्षापि तद्रसे याववद्यतः यावको लक्तकालक्तौ, दीपस्तु कज्जलध्वजे । प्रदीपो दीपवृक्षश्च तालवृन्ते तु वीजनम् व्यजनं मृगचर्मेति धवित्रं च धुवित्रवत् । केशमार्जे कङ्कतिका कङ्कतः काक- कङ्कते कङ्कती, बालक्रीडने गिरिको गिरिवद्गुडः । गिरिगुडो गिरियको गिरीयकोऽथ गिन्दुकः २०७ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ।। २२५ ॥ ॥ २२६ ॥ ॥ २२७ ॥ ॥ २२८ ॥ ॥ २२९ ॥ ॥ २३० ॥ ॥। २३१ ॥ ॥ २३२ ॥ ॥ २३३ ॥ ।। २३४ ।। ॥ २३५ ॥ ॥ २३६ ॥
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy