SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥१२९ ।। ॥१३०॥ ॥ १३१ ॥ ॥ १३२ ॥ ॥ १३३॥ ॥ १३४ ॥ पांशुला पांसुलाऽथ स्यात् पति: पत्नी च जीवतः । पतिवल्यां, निर्वीरा च वीरा पति-सुतोज्झिता भिक्षुकी भिक्षुणी मुण्डा श्रमणा श्रवणाऽपि च । गणिकायां वेश्या वेष्या पण्याङ्गना पणाङ्गना कुट्टन्यां शम्भली दन्त्य-तालव्यादिर्मता बुधैः । कुम्भदास्यां पोटा वोटाऽवस्त्रनार्यां तु नग्निका नग्ना कोटवी कोट्टवी, ऋतुमत्यां तु पुष्पिता । पुष्पवती चाविरवी निष्पुष्पायां तु निष्कला निष्कल्यपि च स्त्रीधर्मे आर्तवं ऋतुसंयुतम् । रजः सान्तं रजोऽदन्तो ना गुणेऽप्यथ मैथुने सुरतं स्याद् रति-रते पशोर्धर्म-किये स्मृते । जभनं यभनं, गर्भवत्यां गुर्वी च गुर्विणी प्रसूतायां विजाताख्या प्रजाताप्यथ भ्रूणके। वृधसानो वर्धसानो गरभो गर्भ इत्यपि दोहदं दौहृदं श्रद्धा, पुत्र्यां तु स्यात् स्तनन्धयी । स्तनन्धया सूनुः सुतापत्ये, पुत्रेऽपि तोककम् तुगपत्ये, भ्रातृपुत्रे भ्रातृव्यो भ्रात्रीयोऽपि च । पुत्रपुत्रे पौत्रस्तस्य युवापत्ये पुनः स्मृतः पौत्रायण एवं पुनर्भूर्नानान्द्रो दुहितृवत् । पौनर्भव-पौनर्भवायणौ, नानान्द्र इत्यपि नानान्द्रायणो, दौहित्रो दोहित्रायणकस्तथा । पैत्र्यां नप्ता भवेद् नत्री स्यात् पितृष्वसुरात्मजे पितृष्वसेयवत्पैतृष्वस्त्रीयो, जननीस्वसुः । पुत्रे तु मातृष्वस्त्रीयस्तद्वन्मातृष्वसेयक: ॥ १३५ ॥ ॥ १३६ ॥ ॥ १३७ ।। ॥ १३८ ॥ ॥ १३९ ।। ॥ १४० ॥ ૧૯ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy