SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अरिष्टनेमौ नेमिच नेमी नन्तोऽपि कथ्यते । श्रीपार्श्वः पार्श्वनाथश्च वामेये, चरमेऽर्हति महावीरः स वीरच, तुर्यार्हन्तस्य वप्तरि । दन्त्यादिः संवरः, कुन्थुबप्पे शूरश्च सुरयुक् मरुदेवा मरुदेव्यप्याद्यार्हन्मातरि स्मृता । तालव्यमध्या त्रिशला, पञ्चमार्हदुपासके त्र्युकारस्तुम्बुरुश्चक्रेश्वर्यामप्रतिचक्रिका । अजिताऽजितबलायां, सुतारा तु सुतारका निमीश्वरोऽर्हद्विशेषे द्वीकारोऽथ कृतार्घके । तुर्यहल्, शूरदेवस्तु दन्त्यतालव्यसादिमः संवरो दन्त्यसादिः स्यात्, भद्रकृद् भद्र उच्यते । मोक्षे श्रेयः शिवं तालव्यादी, निःश्रेयसं पुनः मध्यतालव्ययुक्, साधौ साधन्तः साधयन्तकः । रिष्यृषी यति-यतिनौ श्रमण - श्रवणौ तथा मुनिस्वे तप-तपसी अदन्त - सान्तके स्मृते । प्रायश्चित्तं प्रायश्चित्तिः पापसंशोधके तपे शिष्य : शिक्षु - शैक्षो तालव्याद्याश्छात्रे च तद्भिदि । व्रतादाने परिव्रज्या प्रव्रज्याऽप्यभिधीयते क्षपणे नग्न - नग्नाटयै श्रमणः श्रवणोऽपि च । क्षेमे मद्रं भद्र- भद्रे प्रशस्तं शस्तमित्यपि भावुकं भविकं भव्यं शिवं च श्वोवसीयसम् । श्रेयः स्वःश्रेयसं तालव्यादयः, कुशलं पुनः मध्यतालव्यकं प्रोक्तं, सुभं तालव्य - दन्त्ययुक् । मङ्गल्यमपि माङ्गल्यं मङ्गलं च तथा स्मृतम् ક Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ ६ ॥ ॥ ७ ॥ 112 11 ॥ ९॥ ॥ १० ॥ ॥ ११ ॥ ॥ १२ ॥ ॥ १३ ॥ ॥ १४ ॥ ॥ १५ ॥ ॥ १६ ॥ ॥ १७ ॥
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy