SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥८१ ॥ ॥८२ ॥ ।। ८३ ॥ आयातेव निवारितः स्मितमुखो यातः समीपं बलादाबद्धो वलया हठेन सरुषा कर्णोत्पलेनाहतः । आविद्धो नखरायुधेन हृदये लाक्षारसेनाङ्कितः कान्तः कामपि तृप्तिमापदुचितं कामस्य वामा गतिः मा मां कल्पय लम्पटेषु भवती मा भूः स्वयं खण्डिता भूयोऽन्यत्र न जातु यास्यति निशा तुभ्यं शयेय स्फुटम् । कस्यास्तीह न मन्दिरै परिमल: कस्याङ्गरागो न वा को नालिङ्गति बान्धवं त्यज वृथा तापं प्रसीदाधुना पादालतकलाञ्छनं निजमुरो (?) माच्छादयालोक्यते प्रेयांसो रसपेशला मृगदृशामानन्दथूत्पादकाः । रागाशोकमहीरुहस्तबकितस्तत्पादपद्माहतः स्वच्छे वक्षसि वल्लभस्य परितस्तच्छायमेतद्बहिः दुष्टास्ताः पुरुषं निरीक्ष्य रमणीपादालाक्षारसेनाच्छेनाङ्कितवक्षसं ननु मुधा यासां व्यथा चेतसि । रागाशोकमहीरुहोऽन्तरुदितः किं नावकेशी भवेच्चेदन्यापि तथाविधेन न पदा नि:शङ्कमाताडयेत् पूर्णं चन्द्रमयोगिनीजनमन:संतापसंपादकं सत्यं कामविदो वदन्ति विरहे चन्द्रादयो दु:सहाः । एतत्त्वत्तनुलग्नचन्द्रकलया सङ्गे तवैवाधुना वक्षो दीर्यत एव विद्धि झटिति त्वं नाथ ! दूरं व्रज दोष्णोः पत्त्रकमुद्रणा नयनयो रागोऽधरे कज्जलं गात्रेऽपि क्षतमौचिती सुभगयोः स्याद्वाससो व्यत्ययः । आश्लेषेऽपि परस्परं परिमल: द्रागङ्गरागक्षति किंमूलो हदि पादपल्लवगलल्लाक्षारसस्यादरः ।। ८४ ।। ॥८५ ॥ ॥ ८६ ॥ ८४ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy