SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ४ ॥ जात्या दोषपराङ्मुखाः परगुणप्रीत्या कृति सज्जनाः, पश्यन्तु प्रतिवासरं निजधिया संपादयन्तो रसान् । यज्जानन्ति वदन्तु तत्खलु खला नाभ्यर्थना तेषु चेचूकैस्तावदनादृते दिनमणौ प्राप्तोऽर्थलाभः कियान् आरब्धा शतकत्रयी पृथगिह प्रायः स्थितिर्मादृशां शान्ते वर्त्मनि कर्मणां नयविदां तोषो भवेज्जातुचित् । शृङ्गारः प्रथमं तथा रसवतां हेतुः प्रवृतौ यतो बालानां कटुकौषधप्रणयने देयः पुरस्ताद्गुड: माधुर्यं स्मितमीक्षितं चपलता यूनो: कथासंभ्रमो व्याजेन श्रुतिमुक्तिमालिवचने स्वाभाविको वकिमा। आलस्यं गतिचातुरी मनसिजो रत्या समं खेलनी बालायाः करतालिकामुपगतं सख्योरिदानी मनः वक्षो वीक्षितमादरेण सहसा स्पृष्टो वलिप्रक्रमश्चेतश्चिन्तितमुत्सुकं जघनयोरापीनता तर्किता । तन्व्या लोचनलोलतापि कलिता प्राप्तेऽचिराद्यौवने मुक्तोर स्थलमावृतं सुवदनाकण्ठे स्थितं लज्जया कन्दर्पश्च रतिश्च कुङ्कुममृदालेपेन मूषाद्वयं कुर्वाते रससाधनाय विधिवत्कस्तूरिका मुद्वया । अन्तर्दर्पकबाणतापितयुवप्रेमोष्मभूयस्तया निर्याता रसबिन्दवो बहिरितो हारस्य मुक्ताच्छलात् सेकं सेकमुरोजहेमकलशीयुग्मेन नाभीदाल्लावण्यामृतवारिणापुषदियं शृङ्गारवल्ली हृदि । उन्मीलन्स्मितसूनसौरभभरः श्वासानिलस्तोषकृ द्वक्वेन्दृदयलालितोदरचरीच्छायेह रोमावलिः ॥ ७ ॥ ।। ८ ।। ७१ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy