SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अव्यक्तं नाम किंचित्प्रकृतिरिति महाञ्जायतेऽस्माच्च तस्माज्जातोऽहंकारनामा प्रकृतिमहदहंकारतः पञ्च तत्तत् । तेभ्यः पञ्चेन्द्रियाणि त्रिगुणगुणलवप्राप्ततत्तद्ब्रहाणि प्रायस्तैरेव भुङ्क्ते निजविषयरसं पूरुषः कर्मबद्धः माता वा मातुलो वा प्रभुरपि जनको बान्धवो वा सुहद्धा विद्याभ्यासे सतीर्थ्यास्तपसि सहचरा गेहिनी वा सुता वा । प्रेमस्थानानि तुल्या गुरुपदपदवीरेणुनानातु (?) नामी यद्वाङ्मात्रेण दृष्टिर्भवति नवनवा ब्रह्मपर्यन्तमार्गा वेदा: शास्त्राणि गाथा मुनिभिरभिहितानीतिहासाः पुराणान्यास्यश्वासप्रवृत्तेर्मलिनतररुचीनीतिनेहामहेद्या । यद्द्रष्टुं नैव कस्मादपि सहजशुचिस्फीतसारं विशुद्धं तद्ब्रह्मप्रीतिहेतोरचललयलवप्राप्तबोधं भजामः Acharya Shri Kailassagarsuri Gyanmandir गार्हस्थ्यं नाम धर्मो भवति यदि महान्बुद्धिरित्याद्रियध्वे 'जातामेतां विवेकात्परिणयत सुखं शान्तिकामां कुमारीम् । देहे गेहे चरन्तो जनयत च सुतं ज्ञानमानन्दकन्दं सद्यः संतोषयन्तो मरुदतिथिवरात्पञ्चपञ्चाध्वनीनान् निर्वाणं गन्तुकामस्त्वमसि यदि तदा मुञ्च कर्माणि दूरादेकं तद्ब्रह्म चित्ते कुरु सपदि महामोहसंदोहहारि । बोधे यस्यास्य सद्यो विषयविषधरो नैति पार्थं कदाचिनैवं नैव प्रभावं प्रकटयति निजं सत्कृतं दुष्कृतं च चक्षुः किंचिद्विवक्षु त्वमसि न विदितं कैतवं जीवबन्धोजवस्यैतस्य गर्भे दुरितमनुभवन्मोचितो ऽसौ मयैव केनोपायेन साधो विषयसुखभरात्स्वं निवार्य प्रयत्नादन्तर्गामीह भूत्वा सममपि मनसा ब्रह्म दृष्टं कदाचित् 1 ss For Private And Personal Use Only ॥ ८२ ॥ ॥ ८३ ॥ 11 28 11 112411 ॥ ८६ ॥ ।। ८७ ।।
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy