SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ६० ॥ सूक्ष्मं सूक्ष्म विचिन्वन्नुचितमनुचितं कर्म जन्तोरनिद्रो मन्ये वृद्धः कृतान्तो घनतिमिररुजाक्रान्तनेत्रप्रकाशः । एकं चक्षुनिमील्याहनि तु शशधरं पश्यति प्रेतजातं रात्रावर्कं कथंचित्कलयति सकलं विश्ववस्तुप्रमोदात् ॥ ५८ ॥ भूयो भूयोऽपि पश्यन्भ्रुकुटिविषमितप्रेक्षणद्वन्द्वमारात्सावज्ञं यान्तमग्रे समुदितविमलब्रह्मतत्त्वावबोधम् । तेजोभूम्ना यदस्या स्फुटदिदमधुना दृश्यतेऽन्तः सकाचं चन्द्रं प्रातद्धितीयं तदरुणमसकृज्जायते सूर्यनामा ॥५९॥ गर्वः कस्माद्धतास्ते रणभुवि रिपव: साधु के ते मनुष्या धिग्धिक्कर्मैव तेषां क्षणविजयसुखं कर्म तादृक्तवापि। साधो कर्मैव किं तन्नियतिरिति यया सर्वमेतन्निबद्धं तस्य च्छेदे किमस्त्रं परिचितिरमलब्रह्मणो मुक्तिहेतोः कान्ता काचित्कुलीना स्मितसरसमुखी भीतिहेतुः पिशाची पुत्रस्नेहोपगूढं दवदहनधिया दूरतो मोचनीयम्। बन्धुर्यत्रापदन्धुः सुहृदपि नितरां घातुको दस्युवर्गः । प्राप्तास्तत्रापवर्गाध्वनि पुनरधुना जन्मविच्छित्तिहेतौ पञ्चापीमे मदीया: प्रतिजनि सहजा: पञ्चभूतानि तेभ्यो दीयन्ते तद्विभज्य प्रतिभुवि मनसि प्रापितोऽसौ सुधांशुः । आत्मन्साक्षी त्वमेकः पुनरपि यदि मामाश्रयन्ते कदाचिकर्माकर्तुं क्षमोऽहं विषयपरिचयो नष्ट एव स्वभावात् ॥६२ ॥ कर्णावाकर्णयेतामुचितमनुचितं त्वक्स्पृशेच्चन्दनादीनीक्षेयातां नितान्तं परतरयुवतेश्चक्षुषी रूपजातम् । मिथ्यावादाद्वदेद्वा मृदुरसरसने नासिके जिघ्र गन्धाद्बन्दीमोक्षो भवद्भिर्मम कृपणपटोरद्य लब्धः कथंचित् ॥६३ ।। ૬૨. For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy