SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १३३२ ॥ ॥ १३३३ ।। ॥ १३३४ ॥ ।। १३३५ ॥ ॥ १३३६ ॥ ॥१३३७ ।। पञ्चाश्रवाद् विरमणं, पञ्चेन्द्रियविनिग्रहः । कषायदण्डविरती, भेदाः सप्तदशेत्यमू: सप्तमः सत्यनामायमस्यादेशेन साधवः । हितं मितं च भाषन्ते, जगदाह्लादकृद्वचः अष्टमोऽत्र नृपः शौचाभिधानो मुनिपुङ्गवाः । द्रव्यभावात्मिकां शुद्धिमस्यादेशाद् वितन्वते यड्डिम्भरूपं नवममाकिञ्चन्यं मनोहरम् । मुनिभिर्मोचयत्येतद्, बाह्यान्तरपरिग्रहम् दिव्यौदारिककामानां, त्रिविधानां त्रिधा शमात् । दशमं डिम्भरूपं च, ब्रह्म कारयति स्फुटम् तदेष दशभिर्युक्तो, यतिधर्मोऽत्र मानुषैः । शोभां बिभति सुषमाकाल: कल्पद्रुमैरिव सद्भावसारताऽऽख्येयं, भार्याऽस्य गुणरत्नभूः । म्रियतेऽस्यां मृतायां हि, जीवन्त्यामेष जीवति निशाशशाङ्कयोर्यद्वद्, गौरीगिरीशयोर्यथा । दाम्पत्यमनयोस्तद्वनिर्मिथ्यस्नेहनिर्भरम् जिनैः किमप्यनुज्ञातं, निषिद्धं वा न सर्वथा। भाव्यं सद्भावसारेणेत्येषाऽऽज्ञा पारमेश्वरी चारित्रधर्मस्तदिमां, विरहय्य न तिष्ठति । स्नेहलः क्षणमप्येकं, प्राणेभ्योऽप्यधिकां प्रियाम् द्वितीयो दृश्यते यश्च, जितमारः कुमारकः । गृहिधर्माभिधोऽस्यैव, कनिष्ठोऽयं सहोदर: अयं च कुरुते वत्स, युक्तो द्वादशमानुषैः । निवृत्तं स्थूलहिंसायाः स्थूलालीकाच्च मानवम् ॥ १३३८॥ ॥ १३३९ ।। ॥ १३४०॥ ॥ १३४१ ॥ ॥ १३४२॥ ॥ १३४३ ॥ ४१४ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy