SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १०९२॥ ॥ १०९३॥ ॥ १०९४॥ ॥ १०९५॥ ॥१०९६॥ ॥१०९७॥ अस्ति योऽनुचरः कालपरिणत्या महाबलः । यौवनाख्यस्तदादेशात्, प्रविष्टोऽङ्गेषु देहिनाम् संयुतो वल्गनोल्लासधावनोद्धैमसंमदैः । गर्वशौण्डियषिङ्गत्वधैर्याद्यैश्च पदातिभिः मूर्तिस्फूर्तिस्मरावेशसन्निवेशविधायकम् । क्रुद्धा कृत्येव तमियं, मृनाति सपरिच्छदम् ततो भवन्ति जरसा, जना मर्दितयौवनाः । भार्ययाऽपि पराभूतास्तनयैरप्युपेक्षिताः यो वेदनीयनृपतेर्वयस्यो रसनाभिधः । वर्णितस्तत्प्रयुक्तेयं, रुजाऽपि नृपतेर्भुजा रजस्तमोऽभिसंपातः, संप्राप्तिः कालकर्मणाम् । वातपित्तकफक्षोभो, हेतुः सर्वो रुजामयम् बाह्यान्यपि निमित्तानि, प्रयुङ्क्तेऽसात एव यत् । हेतुः प्राणिषु संलीनस्तत्त्वतस्तदयं रुजाम् स्वास्थ्यं निहत्य वीर्येण, करोत्यातुरतामियम् । ज्वरातिसारकुष्टार्श:प्रमेहप्लीहधूमकाः अम्लकग्रहणीशूलहिक्काश्वासक्षयभ्रमाः । गुल्महद्रोगसम्मोहकण्डून्मादजलोदरा: शिरोनेत्रार्तिवीसर्पच्छर्दिशोषभगन्दराः । सर्वेऽप्यस्याः परीवारस्तेनेयं भुवि दुर्जया हन्ति नीरोगतां सातनियुक्तां पाटवावहाम् । इयमाधि वितनुते, व्याधि चाखिलदेहिनाम् रुदन्ति दीर्घपूत्कारैर्दीनं जल्पन्ति मानवाः । लुठन्तीतस्ततो मूढा, अनया विह्वलीकृताः ॥ १०९८॥ ॥ १०९९ ॥ ॥ ११००॥ ॥ ११०१ ॥ ॥ ११०२॥ || ११०३॥ ४०४ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy