SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मिलनाद् धनदत्तस्य, हर्षाविष्टोऽथ वासवः । सबान्धवः समित्रश्च विततान महोत्सवम् अकाण्डवासवगृहक्षोभं हर्षविनिर्मितम् । प्रकर्ष: प्रेक्षते यावद्, दृष्टस्तावन्नरोऽसितः तेनोक्तं च नरः कोऽयं मातुल ! द्वारि तिष्ठति । विमर्शः प्राह शोकस्य, विषादोऽयं महासुहृत् वाञ्छत्यत्रैष पथिकः, प्रवेष्टुं यश्च कश्चन । भवनेऽस्य विषादोऽयं प्रविष्टेऽस्मिन् प्रवेक्ष्यति वासवस्य ततो गुह्यं प्रविश्य पथिकोऽब्रवीत् । पपात मूर्च्छितः पृथ्व्यां, विषादाधिष्ठितोऽथ सः वायुदानादिना लब्धचेतनः प्रललाप च । हा पुत्र ! तव संजाता, काऽवस्था मम कर्मणा निर्गतोऽभाग्यसंभाराद् वत्स ! वारयतोऽपि मे । विधिना निर्घृणेनेदं, कृतं तव करोमि किम् विषादस्तत्प्रलापेन, प्रविष्टः स्वजनेष्वपि । सर्वे हाहारखपराः, प्रलपन्ति स्म ते भृशम् अभून्मूढं गतानन्दं, वासवीयं गृहं ततः । तद् दृष्ट्वा मातुलं प्राह, प्रकर्षः कोऽयमुद्भ्रमः स प्राहैष यथा पूर्वं, हर्षेण प्रविनाटितः । तपस्विनं विषादोऽयं, नाटयत्यधुना तथा प्रकर्ष: प्राह किं गुह्यं, कर्णे पान्थेन भाषितम् । विमर्शः प्राह पुत्रोऽस्य, वर्तते वर्धनाभिधः वार्यमाणोऽपि स गतो, द्रविणार्जनकाम्यया । देशान्तरे धनं भूरि, समागच्छ्नुपार्ण्य सः ४०२ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ १०४४ ॥ ॥ १०४५ ॥ ॥। १०४६ ॥ ॥ १०४७ ॥ ॥ १०४८ ॥ ॥ १०४९ ॥ ।। १०५० ॥ ॥ १०५१ ॥ ॥ १०५२ ॥ ॥ १०५३ ॥ ॥ १०५४ ॥ ॥ १०५५ ॥
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy