SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १८८॥ ॥ १८९॥ ॥ १९० ॥ ॥ १९१॥ ॥ १९२ ॥ ॥ १९३ ॥ प्रमाणविषयातीतं तारापथसरोजवत् । नैव सद्व्यवहर्त्तव्यं स्याद्वादो न प्रमाश्रयः असिद्धं च विरुद्धं च व्यभिचारि च साधनम् । कालात्ययापदिष्टं स साध्येन समतामितम् स्वदेशे सत्त्वमन्यत्र तस्यासत्त्वं न चापरम् । नन्वेवमेकता प्राप्ता तयोरेषाऽविभागतः परदेश इवासत्त्वं स्वदेशे तस्य किं न वः । सत्त्वं स्वदेशवत्प्राप्तं परदेशेऽविगानतः नाभावः कश्चिदन्योस्ति भाव एव स्वनिष्ठितः । अभावव्यवहारस्तु कल्पनाशिल्पिनिर्मितः अभावाभावतो ह्येवं भावाः सङ्कीर्णरूपिणः । स्वस्वभावास्थिता भावा अपराभाव इष्यताम् तच्चेद्भिन्नं घटादिभ्यः सङ्कीर्णत्वमवारितम् । अभिन्नत्वे तु भावस्य शून्यताप्यविशेषतः धर्मभेदेऽप्यभेदोपि धर्मिणो भवतां मतः । क्रमभाव्यक्षरोल्लेखिविकल्पैकत्वसाधनात् स्याद्वादभङ्गहानिश्च त्वयैव प्रतिपादिता। विचित्रज्ञानमप्येकमिच्छता स्पष्टभासि यत् सर्वं संवेदने स्पष्टमभ्रान्तमिह सम्मतम् । नीलाकारो न चेदर्थो न ज्ञानं वेदनं कुतः प्रामाण्यं परतश्चैवं प्रसक्तं भवतां ननु । न च स्वतोऽसती शक्तिः कर्तुमन्येन पार्यते अप्रामाण्यनिमित्तापि शक्तिर्नान्यनिमित्तका । स्वतोऽसती यतो नासौ कर्तुमन्येन शक्यते ॥ १९४॥ ॥ १९५ ॥ ॥ १९६ ॥ ॥ १९७ ॥ ॥ १९८ ॥ ॥ १९९ ॥ 359 For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy