SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥८० ॥ ।। ८१ ।। ॥ ८२ ॥ ।। ८३ ।। ॥ ८४ ॥ ॥ ८५ ॥ द्वीन्द्रियग्राह्यमग्राह्यं बुद्धिमद्धेतुपूर्वकम् । आश्रयासिद्धता हेतोः बौद्धानभि न संशयः एकान्तवादिपक्षोक्ता असिद्धाः सर्वहेतवः । विरुद्धा ज्ञातमप्येषां साध्यादिपरिवर्जितम् नित्योयं कृतकत्वेन यथाकाशादिसम्मतम् । विरुद्धो हेतुराकाशे साधनं नास्ति तन्न सः बुद्धिमद्धेतुपूर्वं हि संस्थानं कुम्भगेहवत् । संस्थानं भूधरादीनां तस्मात्तबुद्धिपूर्वकम् संस्थानं यादृशं कुम्भे नास्ति तद्भूधरादिषु । भूधरादिगतं नैव तज्जन्यत्वेन निश्चितम् यादृशोऽभीष्यते कर्त्ता तादृक्कर्ता घटादिषु । न सिद्ध इष्टघाती च हेतुरेष न संशयः कालात्ययापदिष्टत्वं तथा सत्प्रतिपक्षता । साध्येन समता चैव साधनाभासमीदृशम् अतीतानागतौ कालौ स्मृतिकारविवर्जितौ । कालत्वात्तद्यथा कालो वर्तमानो न किं भवेत् शब्दो नित्यः प्रमेयत्वादेष साधारणो मतः । श्रावणत्वादनित्योयमसाधारण ईदृशः चाक्षुषत्वादनित्योद्रिर्घटदिरिव निश्चितः । अनन्वयादनैकान्तो हेतुरेष न संशयः कृतकत्वादनित्योयं स्तम्भकुम्भादिवद्ध्वनिः । अदर्शितान्वयत्वेन हेतुरेष न साधक: अनित्यत्वात्कृतकोऽयं विपरीतान्वय ईदृशः । प्रवक्तृत्वादसर्वज्ञः सन्दिग्धान्वय ईदृशः ।। ८६॥ ॥ ८७॥ ॥ ८८ ॥ । ८९ ॥ ॥ ९०॥ ॥ ९१ ॥ ઉપર For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy