SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। ५६ ॥ ।। ५७ ।। । ५८॥ ॥ ५९॥ ॥ ६० ॥ ।। ६१ ॥ क्वचिद्धेतुः क्वचिज्ज्ञातं क्वचित्पक्षोपि सम्मतः । पञ्चावयवयुक्तोपि दशधा वा क्वचिन्मतः वादे चैष विधिज्ञेयो जल्पे च नियतो विधिः । वितण्डायां प्रयोगस्तु न पक्षप्रतिपक्षकृत् वादो जल्पो वितण्डा च कथास्तिस्र उदाहृताः । न्यायविद्भिरथैतासां लक्षणानि निबोधत समानलिङ्गिनां क्वापि मुमुक्षूणामविद्विषाम् । सन्देहापोहकृद्वादो जल्पस्त्वन्यत्र सम्मत: आगमोत्थानुमानं वा वस्तुनो बलभावि वा। आगमोऽध्यक्षमप्यत्र साधनं दूषणं तथा साधनेऽभिहिते भ्रान्त्या साधनाभासतां वदेत् । अनुरूपानुमानाद्यैर्नोचेन्मन्येत तत्तथा अत एवात्र नो युक्ताः स्थेया दण्डधरादयः । छलजात्यादयो दूरं निग्रहोपि न कश्चन वाद एव भवेज्जल्पश्छलजात्यादयः परम् । अनुषज्यन्ते यथायोगं स्थेयदण्डधरादयः जल्पे चादौ विधातव्या व्यवस्था तु जयाजये। अभ्युप्येत्य कृते पक्षेऽन्यतमस्यैकवस्तुनि पक्षीकृतं यदेवास्य दोषस्तत्रैव चिन्त्यते । तन्मतेनानुषङ्गस्तु परस्याज्ञानतावहः परपक्षस्थितस्यास्य स्वमतेनानुषञ्जनम् । परस्याज्ञानदोषेण निग्रहस्थानमावहेत् पक्षान्तरगमोप्यत्र तथा प्रश्नोत्तरान्तरा । विक्षेपोऽननुवादश्च तथानूद्याप्यदूषणम् ।। ६२ ॥ ॥६३ ॥ ॥६४॥ || ६५ ॥ ।। ६६ ॥ ॥६७ ॥ 340 For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy