SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नोपेन्द्रस्य न चेन्द्रस्य तत् सुखं नैव चक्रिणः । साम्यामृतविनिर्मग्नो योगी प्राप्नोति यत्सुखम् रागोऽभीष्टेषु सर्वेषु, द्वेषोऽनिष्टेषु वस्तुषु । क्रोधः कृतापराधेषु मान: परपराभवे लोभः परार्थसंप्राप्तौ माया च परवञ्चने । गते मृते तथा शोको हर्षश्चागतजातयोः अरतिर्विषयग्रामे या शुभे च शुभे रतिः । चौरादिभ्यो भयं चैव कुत्सा कुत्सितवस्तुषु वेदोदयश्च संभोगे व्यलीयेत मुनेर्यदा । अन्तः शुद्धिकरं साम्यामृतमुज्जृम्भते तदा एतेषु येन केनापि कृष्णसर्पेण देहिनः । दृष्टस्य नश्यति क्षिप्रं विवेकवरजीवितम् दुर्विजेया दुरुच्छेद्या एतेऽभ्यन्तरवैरिणः । उत्तिष्ठमाना एवातो रक्षणीयाः प्रयत्नतः यद्यात्मा निर्जितोऽमीभिस्ततो दुःखागमो महान् । यद्यात्मना जिता एते महान् सौख्यागमस्तदा सहजानन्दता सेयं सैवात्मारामता मता । उन्मनीकरणं तद् यद् मुने: शमरसे लयः साम्यं मानसभावेषु साम्यं वचनवीचिषु । साम्यं कायिकचेष्टासु साम्यं सर्वत्र सर्वदा स्वपता जाग्रता रात्रौ दिवा चाखिलकर्मसु । कायेन मनसा वाचा साम्यं सेव्यं सुयोगिना यदि त्वं साम्यसंतुष्टो विश्वं तुष्टं तदा तव । तल्लोकस्यानुवृत्या किं स्वमेवैकं समं कुरु ३१५ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ ९१ ॥ ॥ ९२ ॥ ।। ९३ ।। ॥ ९४ ॥ ॥ ९५ ॥ ॥ ९६ ॥ ॥ ९७ ॥ ।। ९८ ।। ॥ ९९ ॥ ॥ १०० ॥ ॥ १०१ ॥ ॥ १०२ ॥
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy