SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ८ ॥ ॥ ९ ॥ ॥ १० ॥ ॥ ११ ॥ ॥ १२॥ भाग्यं पङ्कपमं पुंसां, व्यवसायोऽन्धसन्निभः । यथा सिद्धिस्तयोर्योगे, तथा ज्ञानचरित्रयोः खड्गखेटकवद् ज्ञान-चारित्रद्वितयं वहन् । वीरो दर्शनसन्नाहः, कले: पारं प्रयाति वै नयतोऽभीप्सितं स्थानं, प्राणिनं सत्तप:शमौ । समं निश्चलविस्तारौ, पक्षाविव विहङ्गमम् युक्तौ धूर्याविवोत्सर्गा-पवादौ वृषभावुभौ । शीलाङ्गरथमारूढं, क्षणात् प्रापयतः शिवम् निश्चयव्यवहारौ द्वौ, सूर्याचन्द्रमसाविव। इहामुत्र दिवारात्रौ, सदोद्योताय जाग्रतः अन्तस्तत्त्वं मनःशुद्धिः, बहिस्तत्त्वं च संयमः । कैवल्यं द्वयसंयोगे, तस्माद् द्वितयभाग् भव नैकचको रथो याति, नैकपक्षो विहङ्गमः । नैवमेकान्तमार्गस्थो, नरो निर्वाणमृच्छति दशकान्तनवास्तित्व-न्यायादेकान्तमप्यहो । अनेकान्तसमुद्रेऽस्ति, प्रलीनं सिन्धुपूरवत् एकान्ते तु न लीयन्ते, तुच्छेऽनेकान्तसम्पदः । न दद्धिगृहे मान्ति, सार्वभौमसमृद्धयः एकान्ताभासो यः क्वापि, सोऽनेकान्तप्रसत्तिजः । वर्तितैलादिसामग्री-जन्मानं पश्य दीपकम् सत्त्वासत्त्वनित्यानित्य-धर्माधर्मादयो गुणाः । एवं द्वये द्वये श्लिष्टाः, सतां सिद्धिप्रदर्शिनः तदेकान्तग्रहावेश-मष्टधीगुणमन्त्रतः । मुक्त्वा यतध्वं तत्त्वाय, सिद्धये यदि कामना ॥ १३ ॥ ॥१४॥ ॥ १५ ॥ ॥ १६॥ ॥ १७ ॥ ॥ १८ ॥ ૨૮૦ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy