SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥६॥ ॥ ७ ॥ ||८ ॥ ॥ ९ ॥ ॥१०॥ ॥ ११ ॥ कटुकोऽप्येष संसारो, जन्मसंस्थितिदानतः । मान्यो मे यन्मया लेभे, जिनाज्ञाऽस्यैव संश्रयात् भवतु नमोऽर्हत्सिद्धा-चार्योपाध्यायसर्वसाधुभ्यः । श्रीजिनशासनमनुज-क्षेत्रान्तःपञ्चमेरुभ्यः ये नमो अरिहन्ताणं, नमो सिद्धाणमित्यथ । नमो आयरियाणं चो-वज्झायाणं नमोऽग्रगम् नमो लोए सव्वसाहू-णमेवं पदपञ्चकम् । स्मरन्ति भावतो भव्याः, कुतस्तेषां भवभ्रम: ? वर्णाः सन्तु श्रिये पञ्च-परमेष्ठिनमस्कृतेः । पञ्चत्रिंशज्जिनवचो-ऽतिशया इव रूपिणः तेषामनाद्यनन्तानां, श्लोकैस्त्रैलोक्यपावनैः ।। वितनोत्यात्मनः शुद्धि, सिद्धसेनसरस्वती नरनाथा वशे तेषां, नतास्तेभ्य: सुरेश्वराः । न ते बिभ्यति नागेभ्यो, येऽर्हन्तं शरणं श्रिताः मोहस्तं प्रति न द्रोही, मोदते स निरन्तरम् । मोक्षं गमी सोऽचिरेण, भव्यो योऽर्हन्तमर्हति अर्हन्ति यं केवलिन:, प्रादक्षिण्येन कर्मणा । अनन्तगुणरूपस्य, माहात्म्यं तस्य वेद कः ? रिपवो रागरोषाद्याः, जिनेनैकेन ते हताः । लोकेशकेशवेशाद्याः, निबिडं यैविडम्बिताः हंसवत् श्लिष्टयोः क्षीर-नीरयोर्जीवकर्मणोः । विवेचनं यः कुरुते, स एको भगवान् जिनः 'स्मृ'-'ध्यै' प्रभृतियुग्धातु-वर्णवत् सहजस्थितिः । कर्मात्मश्लेषो ह्यन्येषां, दुर्लक्ष्यो महतामपि ॥ १२ ॥ ॥ १४॥ ।। १५ ।। ।। १६॥ ।। १७॥ ૨૦૮ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy