SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ४ ॥ पू.आ.श्री भावदेवसूरिविरचितश्रीपार्श्वनाथचरित्रान्तर्गत ॥धर्माराधन-शिक्षा । सर्वत्रौचित्यवतित्वमुपेक्षा परदूषणे । परेणात्ते गुणे दोषे, क्षमायां धर्मसंग्रहः ॥ १॥ औचित्याच्चक्षुषि न्यस्तं, श्रिये कज्जलमप्यहो। अनौचित्येन पादस्थं न कुण्डलमपीष्यते ॥ २॥ विमृश्याऽऽय-व्ययं धर्मकार्यं कुर्यात् तथा बुधः । निश्चय-व्यवहाराभ्यां, यथा बहुगुणं भवेत् }॥३॥ केवलं व्यवहारोऽन्तं, नैति नद्योघगामिवत् । सदोत्सर्गोऽप्यगच्छेदाद्, ऋजुगामीव नो मतः यथैवाऽछिन्दता वृक्षं, गृह्यते तस्य तत् फलम् । व्यवहारमनुल्लङ्घच्य, ध्यातव्यो निश्चयस्तथा ॥ ५ ॥ निश्चयस्तत्त्वसारोऽपि, व्यवहारेण निर्वहेत् । सकलस्याऽपि देवस्य, रक्षा प्राहरिकैर्भवेत् निम्नोन्नतादिवैषम्यं, विदित्वा सर्ववस्तुषु । मध्याङ्कव्यवहारेण, सूत्रधारः प्रवर्तते ॥७॥ आत्मोत्कर्ष-पद्वेष-परे प्राय: कलौ जने । प्राप्य तत्त्वामृतं धीरः, कलि कृत्वा न हारयेत् ॥ ८॥ जिनेन निगृहीता ये, रागद्वेषादयो हठात् । तान् ये पुष्णन्त्यसौ, तेषां कथं नाथः प्रसीदति ? ॥ ९ ॥ अज्ञानाद् दृष्टिबन्धेन, पदबन्धेन गेहिनः । रुध्यन्ते ते पुनः शोच्या, ये रुद्धा बन्धनं विना ॥ १० ॥ दूरेऽस्तु परदोषस्याऽऽदानं स्वपरतापकम् । धत्ते तत्स्पर्शमात्रेऽपि, हृद् वाग् मालिन्यमुल्बणम् ૨૬૦ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy