SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥४८॥ ॥ ४९ ।। ॥ ५० ॥ ॥ ५१ ॥ ॥ ५२ ॥ मिथ्यात्वकषायादीनामाश्रवाणां मनीषिभिः । निरोधाय प्रयोक्तव्याः, उपायाः प्रतिपन्थिन: मिथ्यात्वमातरौद्राख्यकुध्याने च सुधीर्जयेत् । दर्शनेनाकलङ्केन, शुभध्यानेन च क्रमात् क्षान्त्या क्रोधं मृदुत्वेन, मानं मायामृजुत्वतः । सन्तोषेण तथा लोभं, निरुन्धीत महामतिः शब्दादिविषयानिष्टानिष्टांश्चापि विषोपमान् । रागद्वेषप्रहाणेन, निराकुर्वीत कोविदः य एतद्भावनासङ्गी, सौभाग्यं भजते नरः । एति स्वर्गापवर्गश्रीरवश्यं तस्य वश्यताम् निर्जरा भावना संसारहेतुभूताया, यः क्षयः कर्मसन्ततेः । निर्जरा सा पुनढेधा, सकामाकामभेदतः श्रमणेषु सकामा स्यादकामा शेषजन्तुषु । पाक: स्वत उपायाच्च कर्मणां स्याद् यथाऽऽम्रवत् कर्मणां नः क्षयो भूयादित्याशयवतां सताम् । वितन्वतां तपस्यादि, सकामा शमिनां मता एकेन्द्रियादिजन्तूनां, सज्ज्ञानरहितात्मनाम् । शीतोष्णवृष्टिदहनच्छेदभेदादिभिः सदा कष्टं वेदयमानानां, यः शाटः कर्मणां भवेत् । अकामनिर्जरामेनामामनन्ति मनीषिणः तपःप्रभृतिभिवृद्धि, व्रजन्ती निर्जरा यतः। ममत्वं कर्म संसारं, हन्यात्तां भावयेत्ततः ॥ ५३॥ ॥५४॥ ॥ ५५ ॥ ॥ ५७॥ ॥ ५८॥ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy